________________
४२
सागारधर्मामृते
कण्ठावधि । अथ अथवा । आशिरः मस्तकावधि, यथादोषं जलेन शुचीभूयेत्यर्थः । किंविशिष्टः सन्, स्न्यादीति, स्त्रीसेवया कृप्यादिकर्मसेवया च संक्लिष्टः समन्तात्काये मनसि चोपतप्तः, प्रस्वेदतन्द्रालस्यदौर्मनस्यादिदोषदूषितकायमनस्क इत्यर्थः । सोऽस्नातः किं कुर्यादित्याह-याजयेत्पूजया संयोजयेत् । कोऽसौ, अस्नातस्तथाविधो गृही। कानs, हत्पादान् । केन, कर्नाऽन्येन स्नातेन सब्रह्मचारिसतीर्थ्यसधर्मकादिना ॥ ३४ ॥ चैत्यादिनिर्माणस्य फलविशेषसमर्थनया विधेयतामभिधत्तेनिर्माप्यं जिनचैत्यतद्गृहमठस्वाध्यायशालादिकं
श्रद्धाशक्त्यनुरूपमस्ति महते धर्मानुबन्धाय यत् । हिंसारम्भविवर्तिनां हि गृहिणां तत्ताहगालम्बन
प्रागल्भीलसदाभिमानिकरसं स्यात्पुण्यचिन्मानसम् ।। टीका-निर्माप्यं कारापणीयं । किं तत्, तजिनचैत्यादि । कैः, पाक्षिकश्रावकैः । किंविशिष्टं, श्रद्धाशक्त्यनुरूपं रुच्या सामर्थ्येन च सदृशं । यत्कि, यदस्ति भवति । कस्मै, धर्मानुबन्धाय धर्मस्यानुबन्धोऽलब्धलाभो लब्धपरिरक्षणं रक्षितवर्धनमित्येवमात्मकस्तस्मै । किंविशिष्टाय, महते विपुलाय । एतेन चैत्यालयादिनिर्मापणे सावद्यदोषशङ्कानिरस्ता । यदाह तत्पापमपि न पापं यत्र महान धर्मसम्बन्ध इति । हि यस्मात् । स्यात् भवेत् । किं तत्, मानसं मनः । किंविशिष्टं, पुण्यचित् पुण्यं सुकृतं चिनोति वर्धयति, अथवा पुण्या पवित्रा निर्मला चित् संवित्तिर्यस्य तत्पुण्यचित् । केषां, गृहिणां गृहस्थानां
आप्लुतः सम्प्लुश्चान्तः शुचिवासोविभूषितः। मौनसंयमसम्पन्नः कुर्याद्देवार्चनाविधिम् ॥ दन्तधावन शुद्धास्यो मुखवासोवृताननः ।
असञ्जातान्यसंसर्गः सुधीर्देवानुपाचरेत् । १ यद्यप्यारम्भतो हिंसा हिंसायाः पापसम्भवः ।
तथाऽप्यन कृतारम्भो महत्पुण्यं समश्नुते ॥ निरालम्बनधर्मस्य स्थितिर्यस्मात्ततः सताम् । मुक्तिप्रासादसोपान-माप्तैरुक्तो जिनालयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org