________________
सागारधर्मामृते
>
टीका - प्रबलयतु प्रबलां प्रकृष्टस्वफलदानसमर्थां करोतु । कोऽसौ, भव्यो भाक्तिकः कः । कां दृग्विशुद्धिं शङ्कादिदोषरहिततत्त्वश्रद्धानं । किं कुर्व, नर्चन् पूजयन् । कं, जिनं । कै, नराद्यैः जलगन्धाक्षतादिभिः । किंविशिष्टै, -रनधैः हठहृतत्वाहृद्यत्वस्वान्यभुक्तशेषत्वादिपापहेतुदोषमुक्तैः । पुनः किंविशिष्टैः, तद्विधोपाधिसिद्धैः निष्पापसाधन निष्पन्नैः । पुनरपि किंविशिष्टैः, चार्वित्यादिचारूणि दोषनिरासागुणालङ्कारस्वीकाराच्च सहृदयहृदयावर्जकानि काव्यानि लोकोत्तरवर्णनारमणीयगद्यपद्यवाङ्मयानि, अनणुगुणग्रामा अनणूनां महतां गुरूणां गुणानां निसर्ग निर्मलत्वसौरभ्यातिशयादीनां ग्रामाः सङ्घाताः, चारुकाव्यैः स्फुरन्तो भावुकलोकचित्तेषु चमत्कुर्वन्तोऽनगुगुणमामास्तै रज्यन्ति प्रियमाणानि मनांसि येषु तानि तैः । किं कृत्वा अर्चन्, न्यस्य सोऽयमर्हनिति उत्सर्पणावसर्पणतृतीयचतुर्थकालयोर्यश्चतुस्त्रिंशदतिशयसमेतः समवसृतावष्टमहाप्रातिहार्यविराजितस्तत्वोपदेशेन भव्यलोकं पुनीतवान् सोऽर्हनेवायमिति नामस्थापनाद्रव्यभावैः स्थापयित्वा । कं, जिनं । क्क, चैत्यादी चैत्ये प्रतिमायां, आदिशब्देन तदलाभे जिनाकाररहितेऽप्यक्षतादौ । किंविशिष्टे, शुद्धे निर्दोषे रुद्राकाररहिते इत्यर्थः । कस्मा, निरित्यादि, निरुपरमा अविनश्वरा निरोपम्या असाधारणास्तत्तद्गुणा व्यवहारेण दर्शन विशुध्द्यादिभावनाप्रमुख कल्याणपञ्चकलक्षणा निश्चयेन चिदचिज्ञेयद्रव्याकारविशेषस्वरूपास्ते धामोघे समूहे श्रद्धानं रुचिरतरोऽनुरागस्तस्मात् । इत्थं तां दृग्विशुद्धि प्रबलयतु भव्यो यया दृग्विशुध्द्या प्रबलीकृतया कल्पते सम्पद्यते भव्यः । कस्मै, तत्पदाय तीर्थकरत्वाय । एकस्या अपि दृग्विशुद्धेरुत्कर्षस्य तीर्थ करत्वाख्यपुण्य विशेषबन्धहेतुत्वप्रसिद्धेः ॥ ३१ ॥
अधुना व्रतभूषितस्य जिनयष्टुरिष्टफल विशेषममिधत्ते
४०
दृक्पूतमपि यष्टार - महतोऽभ्युदयत्रियः । श्रयन्त्यहम्पूर्विकया किं पुनर्वतभूषितम् ॥ ३२ ॥
टीका — श्रयन्ति आश्रयन्ति । का, अभ्युदयश्रियः पूजार्थज्ञैश्वर्यविशिष्टबलपरिजनकामभोगसम्पदः । कं, यष्टारं पूजकं । कस्य, अर्हतः । किंविशिष्ट, पूतमपि सम्यक्त्वविशुद्धं । अपिर्विस्मये । कया, अहम्पूर्विकया अहं पूर्वमहं पूर्वमित्य हम्पूर्विका तथा अहंप्रथमिकया। किंपुन - विशेषात् श्रयन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org