SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः। ३९ यष्टुः स्रग्दिविजस्र चरुरुमास्वाम्याय दीपस्त्विषेः । धूपो विश्वगुत्सवाय फलमिष्टार्थाय चाय सः॥३०॥ टीका-भवति । काऽसौ, वार्धारा वारो जलस्य धारास्रुतिः । कसै, शमाय अनुद्रेकाय । कस्य, रजसः पापस्य ज्ञानदृगावरणकर्मणो । कस्य, यष्टुरात्मनः पूजयितुः। किंविशिष्टा सती, प्रयुक्ता सम्पादिता। कयोः, पदयोश्चरणयोः । कस्य, अर्हतो जिनेन्द्रस्य । कथं, सम्यक् यथोक्तविधानेन । तथा भवति । कोऽसौ, सद्गन्धः श्रीचन्दनद्रवः । कस्मै, तनुसौरभाय शरीरसौगन्ध्यनिमित्तम् । कस्य, यष्टुः । किंविशिष्टः सन्, अर्हतः पदयोः सम्यक् प्रयुक्तः । तथा सन्ति भवन्ति । के, अक्षताः अखण्डतण्डुलाः। कस्मै, विभवाच्छेदाय विभवस्याणिमादिविभूतेविणस्य वाऽच्छेदो निरन्त. रप्रवृत्तिस्तदर्थं । शेषं पूर्ववत् । तथा भवति । का,-सौ सक् पुष्पमाला । कस्यै, दिविजस्रजे स्वर्गजन्ममन्दारमालार्थं । तथा भवति । कोऽसौ, चरुः नैवेद्यं । कस्मै, उमास्वाम्याय लक्ष्मीपतित्वार्थ । तथा भवति । कोऽसौ, दीपः आरार्तिकं । कस्यै, त्विषे दीप्त्यर्थं । तथा भवति । कोऽसौ, धूपः । किंविशिष्टः, अर्हतः पदयोः सम्यक्मयुक्तः । कस्मै, विश्वगुत्सवाय यष्टुः परमसौभाग्यार्थं । तथा भवति । किं तत्, फलं बीजपूरादि । कस्मै, इष्टार्थायाभिमतवस्तुप्राप्त्यर्थ । तथा भवति । कोऽसौ, सः तत्वादर्घः पुष्पाञ्जलिरित्यर्थः । कस्मै भव, त्यर्घाय पूजाविशेषार्थं । अथवा स इत्यनेन पूर्वोक्त इष्टार्थ एव परामृश्यते तेनायमर्थः कथ्यते । यद्यद्यष्टुरात्मनोऽभिमतं वस्तु गीतादिकं तेन जिने सम्यक्प्रयुक्ते तत्तद्विशिष्टगीतादिवस्तुनोऽर्धाय मूल्याय स्यात्तत्सम्पादयतीत्यर्थः ॥ ३०॥ अथ जिनेज्यायाः सम्यक्प्रयोगविध्युपदेशपुरस्सरं लोकोत्तरं फलविशेषमाविष्करोति चैत्यादौ न्यस्य शुद्ध निरुपरमनिरौपम्यतत्तद्गुणौघश्रद्धानात्सोऽयमहनिति जिनमनघैस्तद्विधोपाधिसिद्धैः । नीराद्यैश्वारुकाव्यस्फुरदनणुगुणग्रामरज्यन्मनोभिभव्योऽर्चन् दृग्विशुद्धिं प्रबलयतु यया कल्पते तत्पदाय॥३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy