SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३४ सागारधर्मामृते ३ ततः कृतोपवासस्य पूजाविधिपुरस्सरम् | स्थानलाभो भवेदस्य तत्रायमुचितो विधिः ॥ जिनालये शुचौ रंगे पद्ममष्टदलं लिखेत् । विलिखेद्वा जिनास्थान- मण्डलं समवृत्तकम् ॥ श्लक्ष्णेन पिष्टचूर्णेन सलिलालोडितेन वा । वर्तनं मण्डलस्येष्टं चन्दनादिद्रवेण वा ॥ तस्मिन्नष्टदले पद्मे जैने वाssस्थानमण्डले । विधिना लिखिते तज्ञै र्विष्वविरचितार्चने ॥ जिनार्थ्याभिमुखं सूरि-विधिनैनं निवेशयेत् । तवोपासक दीक्षेय-मिति मूर्ध्नि मुहुः स्पृशन् ॥ पञ्चमुष्टिविधानेन स्पृष्ट्वैनमधिमस्तकम् । पूतोऽसि दीक्षयेत्युक्त्वा सिद्धशेषं च लम्भयेत् ॥ ततः पञ्चनमस्कार- पदान्यस्मायुपादिशेत् । मन्त्रोऽयमखिलात्पापा-त्त्वां पुनीतादितीरयन् ॥ कृत्वा विधिमिमं पश्चात्पारणाय विसर्जयेत् । गुरोरनुग्रहात्सोऽपि सम्प्रीतः स्वं गृहं व्रजेत् ॥ ४ इयन्तं कालमज्ञानात्पूजिताः स्थ कृतादरम् । पूज्या स्त्विदानीमस्माभि-रस्मत्समय देवताः ॥ ततोऽपमृषितेनाल-मन्यत्र स्वैरमास्यताम् । इति प्रकाशमेवैता नीत्वान्यत्र क्वचित्त्यजेत् ॥ गणग्रहः स एषः स्यात्प्राक्तनं देवतागणम् । विसृज्यार्चयतः शान्ता देवताः समयोचिताः ॥ ६ ततोऽन्या पुण्ययज्ञाख्या क्रिया पुण्यानुबन्धिनी । शृण्वतः पूर्वविद्यानामर्थ सब्रह्मचारिणः ॥ तदास्य दृढचर्याख्या क्रिया स्वसमयश्रुतम् । निष्ठाप्य शृण्वतो ग्रन्थान्बाह्यानन्यांश्च कांश्चन ॥ दृढव्रतस्य तस्यान्या क्रिया स्यादुपयोगिता । पर्वोपवासपर्यन्ते प्रतिमायोगधारणम् ॥ 18 पूजाराध्याख्यया ख्याता क्रियाऽस्य स्यादतः परा । पूजोपवाससम्पत्या गृहतोऽङ्गार्थसंग्रहम् ॥ ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy