SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । ३५ अथ शूद्रस्याप्याहारादिशुद्धिमतो ब्राह्मणादिवद्धर्मक्रियाकारित्वं यथोचित - -मनुमन्यमानः प्राह शूद्रोऽप्युपस्कराचारःवपुशुध्याऽस्तु तादृशः । जात्या हीनोsपि कालादिलब्धौ ह्यात्माऽस्ति धर्मभाक् ॥ २२ ॥ टीका - अस्तु भवतु । कोऽसौ शूद्रोऽपि । किंविशिष्ट, स्तादृशो जिनधर्मश्रुतेर्योग्यः । किंविशिष्टः सन्, उपस्करः आसनाद्युपकरणं, आचारः मद्यादिविरतिः, वपुः शरीरं, तेषां त्रयाणां शुध्या पवित्रतया विशिष्टः । कुत इत्याह-जात्येत्यादि, हि यस्मादस्ति भवति । कोऽसौ, आत्मा जीवः । किंविशिष्टो, धर्मभाक् श्रावकधर्माराधकः । कस्यां सत्यां, कालादिलब्धौ कालादीनां कालदेशादीनां लब्धौ धर्माराधनयोग्यतायां सत्यां । किंविशिष्टोऽपि, हीनो रिक्तोऽल्पो वा, किं पुनरुत्कृष्टो मध्यमो वेत्य पिशद्वार्थः । कया, जात्या वर्णसम्भूत्या । वर्णलक्षणमार्षे यथा > जातिगोत्रादिकर्माणि शुक्लध्यानस्य हेतवः । येषु ते स्युयोवर्णाः शेषाः शूद्राः प्रकीर्तिताः ॥ इत्थमानृशंस्यममृषाभाषित्वं परस्वनिवृत्तिरिच्छा नियमो निषिद्धासु च स्त्रीषु ब्रह्मचर्यमिति सर्वसाधारणधर्ममभिधायेदानीमध्ययनं यजनं दानं ब्राह्मणक्षत्रियविशां समानो धर्मोऽध्यापनयाजनप्रतिग्रहाश्च ब्राह्मणानामेवेति विशेषतस्तद्व्याख्यानार्थमुत्तरप्रबन्धमुपक्रममाणो यजना दिविधानाय पाक्षिकं तावदेवं नियुंक्ते- . यजेत देवं सेवेत गुरून्पात्राणि तर्पयेत् कर्म धर्म्यं यशस्यं च यथालोकं सदा चरेत् ॥ २३ ॥ टीका- - यजेत् पूजयेत् । कोऽसौ, श्रावकः । कं देवं दीव्यते स्तूयते इन्द्रादिभिरिति देवः परमात्मा तं । तथा सेवेत उपासीत । कोऽसौ, श्रावकः कानू, गुरून् धर्माचार्यादीन् । तथा तर्पयेत् प्रीणयेत् । कोऽसौ, श्रावकः । कानि, पात्राणि संपूज्यमानमक्षिकारणगुणान् । तथा आचरेत् अनुतिष्ठेत् । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy