________________
३२
सागारधर्मामृते
सहजामहार्यां चालौकिकी गुणसम्पदमुद्हतो भव्यान् यथासम्भवमगमयन्नाह-- जाता जैनकुले पुरा जिनवृषाभ्यासानुभावाद्गुणै र्येऽयत्नोपनतः स्फुरन्ति सुकृतामग्रेसराः केपि ते । येऽप्युत्पद्य कुदृक्कुले विधिवशादीक्षोचिते स्वं गुणैविद्याशिल्पविमुक्तवृत्तिनि पुनन्त्यन्वीरते तेऽपि तान् ।। टीका-सन्ति । के ते, केऽपि प्रविरलाः सम्प्रति बहूनामभावात् । किंविशिष्टा, अग्रेसराः सम्यक्त्वसहचारिपुण्योदयोन्मुख्याः। केषां, सुकृतां कृतपु. ण्यानां । ये किं, ये स्फुरन्ति लोकचित्ते चमत्कारं कुर्वन्ति । कैः, गुणैः सम्यक्त्वादिभिः । किंविशिष्टै,-यत्नापेनतैः प्रयत्नमन्तरेण प्राप्तैः सहजैरित्यर्थः । किंवि. शिष्टाः सन्तो, जाता उत्पन्नाः । क्व, जैनकुले जिनो देवता येषां ते जैनास्तेषां कुलं पूर्वपुरुषपरम्पराप्रभवो वंशस्तत्र, जिनोक्तगर्भाधानादिनिर्वाणपर्यन्तक्रियामंत्रसंस्कारयोग्ये महान्वय इत्यर्थः । कस्मात्, पुरा पूर्वजन्मनि जिनवृषस्य सर्वज्ञोक्तधर्मस्याभ्यासः असकृत्प्रवृत्तिस्तस्यानुभावो माहात्म्यं तजनितपुण्योदयस्तस्मात् । तथा अन्वीरतेऽनुगच्छन्ति । के, तेऽपि । कान्, तान् पर्वोक्तान जैनकुलजातान् , तत्सदृशा भवन्तीत्यर्थः । ये किं, ये पुनन्ति पवित्रीकुर्वन्ति। कं, स्वमात्मानं । कैः, गुणैः वक्ष्यमाणतत्त्वार्थप्रतिपत्त्यादिभिः। किं कृत्वा, उत्पद्य जनित्वा । क्व, कुटक्कुलेऽपि मिथ्यादृष्टिवंशेऽपि । अपिरत्र विस्मये भिन्नक्रमः । किंविशिष्टे, दीक्षोचिते दीक्षा व्रताविष्करणं व्रतोन्मुखस्य वत्तिरिति यावत्, सा चानोपासकदीक्षा जिनमुद्रा वा उपनीत्यादिसंस्कारो वा । पुनः किंविशिष्टे, विद्याशिल्पविमुक्तवृत्तिनि विद्याऽत्राजीवनाथ गीतादिशास्त्रं, शिल्पं कारुकर्म, ताभ्यां विमुक्ता ततोऽन्या वृत्तिर्वार्ता कृष्यादिलक्षणो जीवनोपायो यत्र तस्मिन् । कस्मात्, विधिवशात् मिथ्यात्वसहचारिपुण्योदययोगात् ॥ २० ॥
इदानीं द्विजातिषु कुलक्रमायातमिथ्याधर्मपरिहारेण विधिवज्जिनोक्तमार्ग माश्रित्य स्वाध्यायध्यानबलादशुभकर्माणि निघ्नन्तं भव्यमभिष्टौति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org