SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । vwww मद्यपलमधुनिशाशन पञ्चफलीविरतिपञ्चकाप्तनुती । जीवदया जलगालन मिति च कचिदष्टमूलगुणाः ॥ १८ ॥ टीका-वर्तन्ते । के, मूलगुणाः । कति, अष्ट । क, क्वचित शास्त्रे। कथं, मद्येत्यादि, पञ्चफली पञ्चानां फलानां समाहारः पिप्पलादिफलपञ्चकमित्यर्थः, तद्विरतिरेक एकात्र मूलगुणः, आप्तनुप्तिः त्रिकालदेववन्दना, मद्यं च पलं च मधु च निशाशनं च पञ्चफली च ताभ्यः पञ्चभ्यो विरतस्तासां पञ्चकं, तच्चाप्तनुतिश्च ते द्वे, जीवदया अनुकम्पा, जलगालनं चेति ॥ १८ ॥ प्रकृतमुपसंहरन् सार्वकालिकसम्यक्त्वशुद्धिपूर्वकमद्यादिविरतिकृतां कृतो. पनीतिनां ब्राम्हणक्षत्रियविशां जिनधर्मश्रुत्यधिकारितामाविष्कर्तुमाह यावज्जीवमिति त्यक्त्वा महापापानि शुद्धधीः । जिनधर्मश्रुतेर्योग्यः __ स्यात्कृतोपनयो द्विजः ॥ १९ ॥ टीका--स्याद्भवेत् । कोऽसौ, द्विजः द्विर्जातो मातृगर्भे जिनसमयज्ञानगर्भ चोत्पादात् द्विजो ब्राह्मणक्षत्रियविशामन्यतमः ‘त्रयो वर्णा द्विजातय' इति वचनात् । किंविशिष्टः, कृतोपनयः कृतो यथाविध्युपकल्पित उपनयो मौञ्जीबन्धादिलक्षणोपनीतिक्रिया यस्य स तथोक्तः । किंविशिष्टः स्यात्, योग्योऽधिकारी। कस्या, जिनधर्मश्रुतेः वीतरागसर्वज्ञोपदिष्टस्य धर्मस्य श्रुतिः श्रवणं शास्त्रं वा उपासकाध्ययनादि तस्याः । किं कृत्वा, शुद्धधीः सम्यक्त्वविशुद्ध बुद्धिः सन् । त्यक्त्वा । कानि, महापापानि महद्विपुलमनन्तसंसारकारणं पाप येभ्यस्तानि मद्यपानादीनि प्राक्प्रबन्धेनोक्तानि । कथं यावजीवं जीवितावधि कथं, इति अनेन प्रकारेण ॥ १९ ॥ १ अष्टावनिष्टदुस्तर दुरितायतनान्यमूनि परिवज्यं । जिनधर्मदेशनाया भवन्ति पात्राणि शुद्धधियः ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy