SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३० सागारधर्मामृते स्थूलहिंसानृतस्तेय मैथुनग्रन्थवर्जनम् । पापभीरुतयाऽभ्यस्ये-द्वलवीर्यनिगूहकः ॥ १६ ॥ टीका – अभ्यसेद्भावयेत् । कोऽसौ, श्रावकः । किं तत्, स्थलेत्यादि, वक्ष्यमालक्षणं स्थूलहिंसादिविरतिरूपमणुव्रतपञ्चकं । कया, पापभीरुतया, न तु राजादिभयेन ततस्तदभ्यासे कर्मक्षपणाऽनिष्टेः । किंविशिष्टः सन्, बलवीर्यनिगूहकः बलमाहारादिजा शक्तिः सैव नैसर्गिकं वीर्य तयोर्निगृहकस्तदंनुसारीत्यर्थः ॥ १६ ॥ एवं हि स्थूलहिंसाविरतिमभ्यस्यता वेश्यादाविव यूतेऽध्यासक्तिर्न कर्तव्येत्युपदिशति — द्यते हिंसानृतस्तेय लोभमायामये सजन् । क स्वं क्षिपति नानर्थे वेश्याखेटान्यदारवत् ॥ १७ ॥ 4 टीका — कानर्थे न क्षिपति, सर्वस्मिन्धर्मादिभ्रंशे व्यापारयतीत्यर्थः । कं, स्वं आत्मानं जातिं च । किं कुर्वन् सजन् गृद्धिं कुर्वन्, कौतुकमात्रेण द्यूतक्रीडनस्य पाक्षिकेण त्यक्तुमशक्यत्वादेवमुच्यते । क्व सजन्, द्यूते । किंविशिष्टे, हिंसा प्राणातिपातः, अनृतमसत्यवचनं, स्तेयं चौर्य, लोभो गार्ध्य, माया वञ्चना, ताः प्रकृताः प्राचुर्येण कृता अस्मिन्निति हिंसादिमये । किंवत्, वेश्यायामाखेटे परदारेषु च यथा । वेश्यादिष्वपि हिंसादिमयत्वादासजतः स्वस्य ज्ञातीनां च पुरुषार्थभ्रंशस्य सुप्रसिद्धत्वात् ॥ १७ ॥ अथ प्रतिपाद्यानुरोधाद्धर्माचार्याणां सूत्राविरोधेन देशनानानात्वोपलम्भामंग्यन्तरेणाष्टमूलगुणानुद्देष्टुमाह १ सवानर्थप्रथनं मथनं शौचस्य सद्म मायायाः । दूरात्परिहर्तव्यं चौर्यासत्यास्पदं द्यूतम् ॥ २ कौपीनं वसनं कदन्नमशनं शय्या धरा पांसुला जल्पाश्लीलगिरः कुटुम्बकजनद्रोहः सहाया विटाः । व्यापाराः परवञ्चनानि सुहृदचौरा महान्तो द्विषः प्रायः सैष दुरोदरव्यसनिनः ससारवासक्रमः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy