SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । Amarn . फल्गुरत्र काकोदुम्बरिका । किंविशिष्टानि, आणि, न केवलमार्द्राणि तान्यदन् स्थूलसूक्ष्मप्राणिनो हन्ति, किं तर्हि, शुष्काण्यपि कालोच्छिन्ननसान्यपि । तान्यदन् स्वमात्मानं हन्ति । कस्मात्, रागयोगतः प्रीतिसम्बन्धात् । अन्तर्दीपकत्वादिदं मध्वादिष्वपि योज्यम् । तत्रापि गंगावतारद्वारेणात्मघातस्यो. तत्वात् ॥ १३ ॥ अथ निशाभोजनागालितजलोपयोगयोर्मद्याधुपयोगवद्दोषमयत्वात्परिहारमाह रागजीववधापाय-भूयस्त्वात्तद्वदुत्सृजेत् । रात्रिभक्तं तथा युज्या-न पानीयमगालितम् ॥ १४ ॥ टीका--उत्सृजेद्वर्जयेद्धार्मिकः । किं तत्, रात्रिभक्तं रानावन्नप्राशनं । किंवत्, सद्वत् मद्यपानादिवत् । कस्मात् , रागेत्यादि, रागश्च जीववधश्च अपायाश्च जलोदरादयस्ते भूयांसो दिनभोजनादतिशयेन बहवो यत्र तद्रागजीववधापायभयस्तस्य भावस्तत्त्वं तस्मात् । तथा न युज्यात नोपयुञ्जति। किं तत,पानीयं जलं पेयत्वात्तैलघृतादि वा सर्व द्रवद्रव्यं किंविशिष्ट, मगालितं वस्त्रादपरिसृतम् । साम्प्रतमनस्तमितभोजिनः सत्फलं किञ्चिदृष्टान्तेन मुग्धजनप्ररोचनार्थ प्रकटयति चित्रकूटेऽत्र मातङ्गी यामानस्तमितव्रतात् । स्वभत्रो मारिता जाता नागश्रीः सागराङ्गजा ॥ १५ ॥ टीका-जाता उत्पन्ना । काऽसौ, मातङ्गी अन्तेवासिनी । किंविशिष्टा, सागराङ्गजा सागरदत्तश्रेष्टिपुत्री । किंनाम्नी, नागश्री। क्व, चित्रकूटे। किंविशिष्टे,ऽत्र एतस्मिन्नेव मालवदेशस्योत्तरस्यां दिशि प्रसिद्धे । कस्मात्, यामानस्तमितव्रतात यामं प्रहरमानं पालितादनस्तमितभोजननियमात्। किंविशिष्टा सती, मारिता । केन स्वभा जागरिकनाम्ना ॥ १५ ॥ एवं कृतपरिकर्मणा पाक्षिकश्रावकेण स्थूलहिंसादिविरतिरपि यथात्मशक्ति भावनीयेत्युपदेशार्थपाह१ अर्कालोकेन विना भुंजानः परिहरेत्कथं हिंसाम् । अपि बोधितप्रदीपो भोज्यजुषां सूक्ष्मजीवानाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy