________________
porn
सागारधर्मामृतेकिंविशिष्टं, अशुचि प्राणिनिर्यासजन्यत्वान्मक्षिकादिवान्तत्वाच्चापवित्रं म्लेच्छलालादिसम्पृक्तत्वात् तुच्छं च ॥११॥ अथ क्षौद्वन्नवनीतस्य दोषभूयिष्टतया त्याज्यतामुपतिशति
मधुवन्नवनीतं च मुश्चेत्तत्रापि भूरिशः ।
द्विमुहूर्तात्परं शश्वत्संसजन्त्यंगिराशयः ॥१२॥ टीका-मुञ्चेत् व्रतयेत् । कोऽसौ, धार्मिकः। किं तत्, नवनीतं च दधिसारमपि । किवत्, मधुवत् क्षौद्रं यथा । यतः संसजन्ति सम्मूर्च्छन्ति । के, अङ्गिराशयः जीवसंघाताः । कियन्तो, भूरिशः प्रचुराः । क, तत्रापि न केवलं मधुनि नवनीतेऽपि । कंथ,शश्वत् सदा। कथं,परम् ,ऊर्ध्व । कस्मात्, द्विमुहूर्तात् मुहूर्तद्वयात् ॥ १२ ॥ अथ पञ्चोदुम्बरभक्षणे द्रव्यभावहिंसादोषमुपपादयति
पिप्पलोदुम्बरप्लक्ष-वटफल्गुफलान्यदन् ।
हन्त्याद्रोणि सान् शुष्का-ण्यपि स्वं रागयोगतः १३ टीका-हन्ति हिनस्ति । कोऽसौ, पुरुषः । कान्, सान् स्थूलसूक्ष्मप्राणिकुलाकुलत्वात्तेषाम् । किं कुर्वन् , अदन् भक्षयन् । कानि, पिप्पलादिफलानि । १ यन्मुहूर्तयुगतः परं सदा मूर्छति प्रचुरजीवराशिभः । तद्लिन्ति नवनीतमत्र ये ते व्रजन्ति खलु कां गतिं मृताः ॥ अंतर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः।। यत्र मूर्छन्ति नायं तनवनीतं विवकिभिः ॥ २ अश्वत्थोदुम्बरप्लक्ष-न्यग्रोधादिफलेष्वपि । प्रत्यक्षाः प्राणिनः स्थूलाः सूक्ष्माश्चागमगोचराः ॥ ससंख्यजीवव्यपघातवृत्तिभिर्न धीवरैरस्ति समं समानता । अनन्तजीवव्यपरोपकाणामुदुम्बराहारविलोलचेतसाम् ॥ मद्योदुम्बरपञ्चकाभिषमधुत्यागाः कृपा प्राणिनां नक्तंभुक्तिविमुक्तिराप्तविनुतिस्तोयं सुवस्त्रस्रतम् । एतेऽष्टौ प्रगुणा गुणा गगधरैरागारिणां कीर्तिता ऐकेनाप्यमुना विना यदि भवेद् भूतो न गेहाश्रमी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org