________________
द्वितीयोध्यायः ।
२७.
समेऽपि अन्नमांसयोस्तुल्येऽपि, न च प्राणिकायत्वाद्धान्यस्यापि मांसल्वमुपकल्प्यं, यो यः प्राणिकायः स स मांसमिति व्याप्तेरभावात् । अन्यथा वृक्षत्वादशोकादीनामपि निम्बत्वकल्पनाग्रसङ्गात् । यतः भोग्या अनुभवनीया। काऽसौ, जायैव, न पुनरम्बिका माता भोग्या । कैर्जनैः लोकैः । क्व सति, स्त्रीत्वाविशेषऽपि भार्यामात्रोः स्त्रीत्वे तुल्येऽपि ॥ १० ॥ अथ क्रमप्राप्तान्मधुदोषानाह
मधुकृबातघातोत्थं मध्वशुच्यपि बिन्दुशः।
खाद बनात्यघं सप्त-ग्रामदाहांहसोऽधिकम् ॥ ११ ॥ टीका-बध्नाति आत्मना योजयति । कोऽसौ, पुमान् । किं तत्, अघं पापं । कियत्, अधिकं अतिरिक्तं । कस्मात् सप्तग्रामदाहांहसः ग्रामसप्तकदाहकपातकात् । किं कुर्वन्, खादन् भक्षयन् । किं तत्, मधु क्षौद्रं । किंमात्रमपि बिन्दुशः बिन्दुमात्रमपि। किंविशिष्टं, मधुकृतां मक्षिकाभ्रमरमशकादीनां मधुकरप्राणिनां व्रातः सङ्घस्तस्य धातो नाशस्तस्मादुत्था उत्पत्ति यस्य तन्मधुकृदवातवातोत्थं । पुनः
१ मांसं जीवशरीरं जीवशरीरं भवेन वा मासम् । यद्वनिम्बो वृक्षो वृक्षस्तु भवेन्न वा निम्बः ॥ शुद्धं दुग्धं न गोमांसं वस्तुवैचित्र्यमीदृशं । विषघ्नं रत्नमाहेयं विषं च विपदे यतः ॥ हेयं पलं पयः पेयं समे सत्यपि कारणे । विषद्रोरायुषे पत्रं मूलं तु मतये मतम् ॥ ग्रामसप्तकविदाहिर कसा तुल्यता न मधुनक्षिरेफसः । तुल्यमञ्जलिजलेन कुत्रचि-निम्नगापतिजलं न जायते ॥ यश्चिखादिषति स रघं कुधी- मक्षिक गणविनाशनस्पृहः । पापकर्दमनिषेधनिम्नगा यस्य हन्त करुणा कुतस्तनी ॥ स्वयमेव विगलितं यद् गहीतमथवा बलेन निजगोलात् । तत्रापि भवति हिंसा तदाश्रयप्राणिनां घातात् ॥ ३ अनेकजन्तुसङ्घात-निघातनसमुद्भवम् । जगुप्सनीय लालाव-त्कः स्वादयति माक्षिकम् ॥ माक्षिकागर्भसम्भूत-बालाण्ड कनिपीडनात् । जातं मधु कथं सन्तः सेवन्ते कललाकृति ॥ एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यमन्ति मधूच्छिणं तदनन्ति न धार्मिकाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org