SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २६ सागारधर्मामृते वधसम्पादितं । किं कुर्वत्, अर्पयत् सम्पादयत् । कं, दर्प मदावेशं । कथं, तरां अतिशयेनेत्यऽव्ययमिदम् । मृष्टान्नादिभ्योऽतिशयेन प्राणिवधादुत्पन्नं तद्वदर्पकरं चेत्यर्थः ॥ ८ ॥ इदानीं सङ्किल्पिकस्यापि पलभक्षणस्य दोषं तद्विरतिनिष्टायाश्च गुणमुदाहरणद्वारेण दर्शयतिभ्रमति पिशिताशनाभि-ध्यानादपि सौरसेनवत्कुगतीः । तद्विरतिरतः सुगतिं श्रयति नरश्चण्डवत्खदिरवद्वा ॥ ९॥ __टीका-भ्रमति परापरविवर्ते परिवर्तयति । कोऽसौ, जीव : । काः, कुगतीः नरकादिभवग्रहणानि । कस्मात् पिशिताशनाभिध्यानादपि मांसभक्षणसङ्कल्पात्, किं पुनस्तद्भक्षणादित्यपिशब्दार्थः । किंवत्, सौरसेनवत् सौरसेनराज्ञा तुल्यं । तथा श्रयति लभते । कोऽसौ,नरः। कां, सुगतिं स्वर्गादिगतिं । किंविशिष्टः सन् , तद्विरतिरतः पिशितनिवृत्तावासक्तः। किंवत्, चण्डवत् चण्डनामोजयिन्यां मातङ्गो यथा । अथवा खदिरवत् खदिरसारो नाम भिल्लराजो यथा ॥९॥ __ अधुना मांसं सतां भक्षणीयं प्राण्यङ्गत्वान्मुद्गादिवदित्यनुमानाभिधानग्रहा वशान्मांसभक्षणदक्षिणान् प्रत्याह प्राण्यङ्गत्वे समेऽप्यन्नं भोज्यं मांसं न धार्मिकैः । भोग्या स्त्रीत्वाविशेषेऽपि जनै यैव नाम्बिका ॥१० । टीका-भोज्यं भोक्तव्यं । किं तत्, अन्नं मुद्गोंदिधान्यं रसरक्तविकारजत्व। भावात् । न तु भोज्यं । किं तत्, मांसं रसरक्तविकारजत्वात् । कैः, धार्मिकै धर्ममहिंसारूपं चरद्भिः । क्व सति, प्राण्यङ्गत्वे जीवकायत्वे । किंविशिष्टे १ पञ्चेन्द्रियस्य कस्यापि वधे तन्मांसभक्षणे । यथा हि नरकप्राप्ति-न तथा धान्यभोजनात् ॥ धान्यपाके प्राणिवधः परमेकोऽवशिष्यते ।। गृहिणां देशयमिनां स तु नात्यन्तबाधकः ।। मांसखादकगतिं विमृशन्तः शस्यभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चै-जैनशासनजुषो गृहिणोऽपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy