________________
द्वितीयोध्याय ।
२५
टीका - स्यात् भवेत् । कोऽसौ, पुमान् । किंविशिष्टः, हिंस्त्रेः द्रव्यहिंसाशीलः । भावहिंसायास्तु मांसभक्षणे दर्जेकरतरत्वेन वक्ष्यमाणत्वात् । किं कुर्वन्, अश्नन् खादन्, स्पृशन् वा हस्तादिना संयोजयन् । किं तत्, पलं मांसं । कस्य, स्वयमृतस्यापि भोक्तुः प्रयत्नमन्तरेणापि त्यक्तप्राणस्य मत्स्यमहिषादेः किं पुनरातमना वधितस्येत्यपिशब्दार्थः । कुत इत्याह- हि यस्मात् । भवन्ति । का, - स्तत्पेश्यः तस्य पलस्य पेश्यः कोशाः । किंविशिष्टाः, निगोदौघसुतः निगोदानां साधारणांगजीवानामेकशरीर भोक्तृणामनन्तप्राणिनामोघाः सङ्घातास्तान् सुवन्ति जनयन्तीति निगोदौघसुतः । किं कदाचिन्नेत्याह-सदा सर्वदा । किंविशिष्टाः सत्यः, पक्कापक्काः पक्काश्चापवाश्चेति विगृह्यैकशेषेण पक्कापक्का इत्यस्य लोपस्तेन पक्काः आमाः पच्यमानाश्चेत्यर्थः ॥ ७ ॥
अथ मांसस्य प्राणिहिंसातिरेकप्रभवत्वेनेन्द्रियदर्पकरतरत्वेन च भावहिंसाहैतुत्वानुवादपुरस्सरं तद्भक्षणं नरकादिगतिविवर्तननिमित्तत्वेनोपदिशन्नाह— प्राणिहिंसार्पितं दर्प-मर्पयत्तरसं तराम् ।
रसयित्वा नृशंसः स्वं विवर्तयति संसृतौ ॥ ८ ॥
"
१
टीका — विवर्तयति द्रव्यक्षेत्र कालभावैः परिवर्तयति । कोऽसौ नृशंसः क्रूरकर्मकृत् । कं, स्वं आत्मानं । क, संसृतौ संसारे । किं कृत्वा, 1 refecar आस्वाद्य । किं तत्, तरसं मांसं । किंविशिष्टं प्राणिहिंसार्पितं पञ्चेन्द्रियजीवअभिमानभयजुगुप्सा- हास्यारतिकामशकिकोपाद्याः । हिंसायाः पर्यायाः सर्वेऽपि च नरकसंनिहिताः ॥ न विना प्राणिविघातान्मांसस्योत्पत्तिरिष्यते यस्मात् । मांसं भजतस्तस्मात् प्रसरत्यनिवारिता हिंसा ॥ ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न वद को भक्षकं विना ॥ मांसास्वादनलुब्धस्य देहिनो देहिनं प्रति । हन्तुं प्रवर्तते बुद्धिः शाकिन्य इव दुर्धियः
आमां वा पक्कां वा खादति वा स्पृशति वा पिशितपेशीम् । स निहन्ति सततनिचितं पिण्डं बहुजीवकोटीनोम् ॥ आमास्वपि पक्कास्वपि विपच्यमानासु मांसपेशीषु । सातत्येनोत्पादस्तज्जातीनां निगोतानाम् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org