SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २४ सागारधर्मामृते शिष्टाः, अखिलाः समस्ताः । कथं, क्षिप्रं पानानन्तरमेव । तथा उद्यन्ति उत्पद्यन्ते । के ते, कामादयः। क्व सति, यत्र पीते सति । कथं, सावा पापेन निन्दया वा सह । कामो योन्यादौ रिरंसा, भ्रमो मिथ्याज्ञानं चक्रारूढस्येव शरीरभ्रमणं, कामश्च क्रोधश्च भयं च भ्रमश्च कामक्रोधभयभ्रमाः ते प्रभृतयः प्रमुखा येषामभिमानहास्यारतिशोकादीनां ते ॥ ५॥ अथाचारविशुद्धिगर्वितानां पिशिताशनं गह्यमाणः प्राह स्थानेऽनन्तु पलं हेतोः स्वतश्चाशुचिकश्मलाः । वादिलालावदप्याः शुचिम्मन्याः कथं नु तत् ॥६॥ टीका-अनन्तु भक्षयन्तु । के ते, कश्मलाः जातिकुलाचारमलिनाः । किं तत्, पलं मांसं । किंविशिष्टं, अशुचि । कस्मात्, हेतोः शुक्रशोणितलक्षणात कारणात्, न केवलं हेतोः स्वतश्च स्वभावेन अमेध्यबीजममेध्यस्वभाव चेत्यर्थः । कथं, स्थाने युक्तं कश्मलानां तथाप्रवृत्त्युपपत्तेः । नु अहो । कथमद्युः कथं खादेयुः गर्हामहे । अन्याय्य (अनार्य) मेतत् । गर्दै सप्तम्या विधानात् । के ते, शुचिम्मन्याः आचारविशुद्धमात्मानं मन्यमानाः । किं तत्, पलं । किंविशिष्टं, श्वादिलालावदपि श्वादीनां कुक्करचित्रकश्येनादीनां लाला मुखस्रावः श्वादिलाला सा अस्मिन्नस्तीति श्वादिलालावत्, अथवा श्वादिलालया तुल्यं श्वादिलालवत् कुक्करादिलालायुक्तं तत्तुल्यं वा । अपि विस्मये ॥ ६ ॥ साम्प्रतं स्वयमेव पञ्चत्वं प्राप्तस्य पञ्चेन्द्रियस्य मत्स्यादेर्भक्षणमदूषणमुत्ने क्षमाणान् प्रत्याह हिंस्रः स्वयम्मृतस्यापि स्यादनन् वा स्पृशन्पलम् । पक्कापका हि तत्पेश्यो निगोदौघसुतः सदा ॥ ७ ॥ १ भक्षयन्ति पलमस्तचेतनाः सप्तधातुमयदेहसंभवम् । यद्वदन्ति च शुचित्वमात्मनः किं विडम्बनमतः परं बुधाः ।। यतो मांसाशिनः पुंसो दमो दानं दयार्द्रता । सत्यशौचव्रताचारा न स्युर्विद्यादयोऽपि च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy