________________
द्वितीयोध्यायः ।
२३
भरन्ति । के ते, जीवाः। कां,त्रिलोकीमपि समस्तविष्टपमपि । कथं, तत् ततः। चे,-द्यदि । प्रचरन्ति संचरन्ति । के, जीवाः । कस्मात्, यदेकबिन्दोः यस्य मद्यस्यैकस्माद् बिन्दोः पृषतः सकाशात्, तज्जाः प्राणिनो यदि विचरेयुरित्यर्थः। यतश्च यस्यन्ति भ्रंशयन्ति श्रेयो, हितं कुर्वन्तीत्यर्थः। के ते, यद्विक्लवाः येन मद्येन मोहितमतयः। कं, लोकं । किंविशिष्ट, ममुं, न केवलममुं च तद्भवमुत्तरभवं च दुःखमयं कुर्वन्तीत्यर्थः ॥ ४ ॥
इदानीं मद्यपानस्य द्रव्यभावहिंसानिदानत्वमनूद्य तन्निवृत्तिप्रवृत्तिशीलानां गुणदोषौ दृष्टान्सद्वारेण स्पष्टयन्नाह
पीते यत्र रसाङ्गजीवनिवहाः क्षिप्रं म्रियन्तेऽखिलाः कामक्रोधभयभ्रमप्रभृतयः सावद्यमुद्यन्ति च । तन्मयं व्रतयन्न धृतिलपरास्कन्दीव यात्यापदं तत्पायी पुनरेकपादिव दुराचारं चरन्मज्जति ॥ ५॥
टीका-न याति न प्राप्नोति । कोऽसौ, पुरुषः । कां, आपदं विपदं। किं कुर्वन् ,व्रतयन् व्रतं कुर्वन् अमद्यपकुलजातोऽपि देवादिसाक्षिकं निवर्तयन्नित्यर्थः। किं तत्, तत्प्रागुक्तविनिपातप्रायं मद्यम् । क इव, धूर्तिलपरास्कन्दीव धूर्तिलनामा चोरो यथा। तत्पायी पुनर्मद्यपानशीलो मजति दुर्गतिदुःखे ब्रजति। किं कुर्वन् , चरन् अनुतिष्ठन् । कं, दुराचारं अगण्यगमनाभक्ष्यभक्षणापेयपानादिकं । क इव, एकपादिव एकपान्नामपरिव्राजको यथा । यत्र किं, यस्मिन्मद्ये पीते सति । नियन्ते विपद्यन्ते । के ते, रसाङ्गजीवनिवहाः रसोऽङ्गं कारणं येषां ते रसांगाः रसजा इत्यर्थः, तथा रसस्यांगानि कारणानि रसांगानि मद्ये रसजनका इत्यर्थः, रसांगाश्च ते जीवाश्च रसांगजीवास्तेषां निवहाः संघाताः । किंवि
रसजानां च बहूनां जीवानां योनिरिष्यते मद्यम् । मद्यं भजतां तेषां हिंसा सजायतेऽवश्यम् ॥ समुत्पद्य विपद्येह देहिनोऽनेकशः किल । मद्ये भवन्ति कालेन मनोमोहाय देहिनाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org