________________
सागारधर्मामृते
शास्त्रानुसारिभिः पूर्वमनुष्ठेयतयोपदिष्टान् । कति, अष्ट मंद्यमांसमधुपञ्चोदुम्बरफलविरतिरूपान्। वा-शब्दः पक्षान्तरसूचने । स्वामिसमंतभद्रमते पुनः सूरिः स्म - रेत् । किं तत्, स्थूलवधादि स्थूल हिंसानृत स्तेय मैथुनग्रन्थपञ्चकम् । क, फलस्थाने पञ्चोदुम्बरफलप्रसङ्गे तनिवृत्तौ वा मद्यमांसमधुविरतित्रयं पञ्चाणुव्रतानि चाष्ट मूलगुणान् स्मरेदित्यर्थः । पुनर्वाशब्दः पक्षान्तरसूचने । महापुराणमते तु स्मरेत् । किं तत्, द्यूतं । व, मधुस्थाने । कस्मिन् इहैव अस्मिन्नेव स्वाम्युक्ताष्टमूलगुणपक्षे मद्यमांसद्यूतविरतित्रयं पंचाणुत्रतानि चाष्टौ मूलगुणान् स्मरेदित्यर्थः । स्मरेदित्यनेन न च सर्वत्र यमनियमादौ भुक्त्यंगे स्मरणपरेण भवितव्यमिति लक्षयति ॥ सम्प्रति मयस्य जन्तुभूथिष्टतानुवादपुरस्सर सुपयोक्तृणामुभयलोकवाधकत्वमुपदर्शयन्नवश्य त्याज्यतामभिधत्तेयदेकबिन्दोः प्रचरन्ति जीवा - तत् त्रिलोकीमपि पूरयन्ति । यद्विक्लवावे मममुं च लोकं
२२
यस्यन्ति तत् कश्यमवश्यमस्येत् ॥ ४ ॥ टीका– अस्येत् त्यजेत् । कोऽसौ, स्वहितैषी । किं तत्, कश्यं मद्यं कथं, अवश्यं नियमेन मद्यविरतिव्रतं स्वीकुर्यादित्यर्थः । यतः पूरयन्ति
१ मद्यमांसमधुत्यागैः सहोदुम्बरपञ्चकैः । अष्टावेते गृहस्थाना·मुक्ता मूलगुणाः श्रुते ॥ ( सोमदेवः )
२ मद्यमांसमधुत्यागैः सहाणुव्रतपञ्चकम् । अप्रै मूलगुणानाहु-र्गृहिणां श्रमणोत्तमाः || (समन्तभद्रः ) ३ हिंसासत्यस्तेया- दब्रह्मपरिग्रहाच्च बादरभेदात् । द्यूतान्मांसान्मया-द्विरतिगृहिणोऽष्ट सन्त्यमी मूलगुणाः ॥
४ मनोमोहस्य हेतुत्वा - निदानत्वाच्च दुर्गतेः ।
मद्यं सद्भिः सदा त्याज्य - मिहामुत्र च दोषकृत् ॥ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात्प्रतीयते सर्वं तृण्या वन्हिकणादिव ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org