SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते-- किं लक्षणास्त्रे दर्शनिकादयो भवन्तीत्युद्दिशतिदृष्ट्या मूलगुणाष्टकं व्रतभरं सामायिक प्रोषधं सच्चित्तानदिनव्यबायवनितारम्भोपधिभ्यो मतात् । उद्दिष्टादपि भोजनाच विरतिं प्राप्ताः क्रमात्माग्गुणप्रौढ्या दर्शनिकादयः सह भवन्त्येकादशोपासकाः॥१७॥ टीका-भवन्ति । के, उपासकाः श्रावकाः । कति, एकादश । किन्नामानः दर्शनिकादयः । दर्शनिकोऽथ व्रतिक इत्यादिना वक्ष्यमाणाः । किं विशिष्टासन्तः, प्राप्ताः प्रतिपत्राः । किं तत्, दृष्ट्या मूलगणाष्टकमित्यादिविरतिमि. त्यन्तं देशसंयमातथा हि-सम्यक्त्वेन विशिष्टं मूलगुणाष्टकं प्राप्तो दर्शनिकः स एव च व्रतभरं निरतिचाराण्यणुव्रतादीनि प्राप्तो व्रतिकः । एवमुत्तरेष्वपि सम्बन्धः कर्तव्यः । व्यवायो मैथुनम्, वनिता स्त्रीः, उपधिः परिग्रहः, मतात् मदर्थ साधुकृतमनेनेदमित्यनुमोदितात्, अपि भोजनात् मतादुद्दिष्टाच्च भोजनादपि विरतिं प्राप्तोऽनुमतविरत उद्दिष्टविरतश्च,योऽनुमतमुद्दिष्टं च भोजनपि न कुर्यात् स किमां न्यत्रारम्भादौ पापकर्मण्यनुमतिं दद्यात्, उद्दिष्टं च वसत्याच्छादनादिकमुपयुञ्जीतेत्यपिशब्दाल्लभ्यते। कथं ते तत्तत्पदं प्राप्ताः, सह सार्धम् । कया, प्राग्गुणप्रौव्या दृष्टिमूलगुणाष्टकप्रकर्षेण सह व्रतभरं, तलयप्रकर्षेण सामायिकमित्यादियुक्त्या ते तथा भवन्तीत्यर्थः । कस्मात्तथा भवन्ति, क्रमात् अनादिविषयाभ्यासासंय. मभग्नमनस्कतया युगपत्तत्रासामर्थ्यात् ।। .. साम्प्रतं दुरितापचयनिमित्तेज्यादिधर्मकर्मसिध्यर्थं कृष्यादिषट्कर्मलक्षण वार्तामाचरतो गृहस्थस्यावश्यंभावी सावद्यलेशः प्रायश्चित्तेन पक्षादिभिश्च निराकार्य इत्युपदेशार्थमाह नित्याष्टाह्निकसच्चतुर्मुख महः कल्पद्रुमैन्द्रध्वजाविज्याः पात्रसमक्रियान्वयदयादत्तीस्तपःसंयमान् । स्वाध्यायं च विधातुमादृतकृषीसेवावणिज्यादिकः शुध्याऽऽप्तोदितया गृही मललवं पक्षादिभिश्च क्षिपेत् ।। टीका-क्षिपेत् निराकुर्यात् । कोऽसौ, गृही गृहस्थः । कं, मललवं पापले' शम् । कया, शुध्धा प्रायश्चित्तेन । किंविशिष्टया, आप्तोदितया । न केवलं तया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy