SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथमोध्यायः । orwwwwwwwwwwwwwwwwwwwr वार्ता तु श्रावकंस्य गोणीति प्रधानग्रहणाल्लशयति । किं चरिष्णुः श्रावकः स्यात्, पिपासुः पातुमिच्छुः उपयोक्तकामः। कां, ज्ञानसुधां स्वपरान्तरज्ञानामृतम् । एवं पञ्चमगुणस्थानं निर्दिश्य तद्विकल्पानां भावद्रव्यात्मनामेकादशाना मुपासकपदानां मध्येऽन्यतमं विशुद्धदृष्टिमहाव्रतपरिपालनलालसो यथा. त्मशक्ति यः प्रतिपद्यते तमभिनन्दति रागादिक्षयतारतम्यविकसच्छुद्धात्मसंवित्सुखस्वादात्मस्वबहिर्बहिस्त्रसवधायहोव्यपोहात्मसु । सग्दर्शनिकादिदेशविरतिस्थानेषु चैकादश स्वेकं यः श्रयते यतिव्रतरतस्तं श्रद्दधे श्रावकम् ॥१६॥ टीका-श्रद्दधे साधु करोत्ययमिति प्रतिपद्येऽहम् । कं, तं श्रावकं । यः किं, यः श्रयते स्वीकुरुते । किं तत्, एकं पदं । केषु मध्ये, दर्शनिकादिदेशविरतिस्थानेषु एकादशसु वक्ष्यमाणेषु । कथम्भूतो भूत्वा, सहक् सम्यग्दर्शनशुद्धः ! पुनः किंविशिष्टः, यतिव्रतरतः यतीनामनगाराणां व्रतानि सर्वहिंसादिविरतिपरिणामास्तेषु रत आसक्तः, सर्वविरतिकलशारोपणो हि श्रावकधर्मप्रासादः। किंविशिष्ठे भावतस्तेष्वित्याह-रागादिक्षयतारतम्येत्यादि, क्षयः सर्वघातिस्पर्द्धकानामुदयाभावः अर्थाद्देशघातिस्पर्द्धकानामुदयः, तारतम्यं यथोत्तरमुत्कर्षः, रागादीनां रागद्वेषमोहानां क्षयतारम्येन विकसन्ती आविर्भवन्ती चासो शुद्धात्मसंविञ्च निर्मलचिद्रपानुभूतिः सैव तदुत्थं वा सुखमानन्दस्तस्य स्वादः स्वसंवित्याऽनुभवः स एवात्मा स्वरूपं येषां तानि तदात्मानि तेषु । क, एवंभूतेषु अबहिरध्यात्मं । तर्हि द्रव्यतः किंरूपेष्वित्याहबहिः शरीरे वाचि मनसि च सवधं आदिर्येषां स्थूलादीनां तानि त्रसव'धादीनि तान्येव अंहांसि पापानि तत्फलत्वात्तेभ्यो व्यपोहो विधिपूर्वक देवगुरुसधर्मसाक्षिकमपोहो विरतिः सैवात्मा एषां तानि तेषु । 'च' शब्दस्यात्र भिन्नक्रमस्य योजनात्॥ १६ ॥ __ आयुःश्रीवपुरादिकं यदि भवेत्पुण्यं पुरोपार्जितं स्यात्सर्वं न भवेन तच्च नितरामायासितऽप्यात्मनि । इत्यार्याः सुविचार्य कार्यकुशलाः कार्येऽत्र मंदोद्यमा द्रागागामिभवार्थमेव सततं प्रीत्या यतन्ते तराम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy