SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमोध्यायः। १७ पक्षादिभिश्च पक्षचर्यासाधनैस्त्रिभिः । किंविशिष्टः सन्, आइतकृषीसेवावणिज्यादिकः आदृतानि यथास्वं प्रवर्तितानि कृषीसेवावणिज्यानि आदिशब्दान्मषीविद्याशिल्पानि च षडाजीवनकर्माणि येन सः आदृतकृषीसेवावणिज्यादिकः । किं कर्तुं, विधातुं कर्तुं करिष्याम्यहमिज्यादीनि जिनागमप्रसिद्धानि पञ्च धर्मकर्माणीति अध्यवसायः । कानि तानीत्याह-नित्येत्यादि, नित्यमहः *अष्टाह्निकमहः सच्चतुर्मुखमंहः कल्पद्रुमः ऐन्द्रध्वजश्चेति पञ्चाहत्पूजाविशेषाः इज्याः । चतुर्मुखस्य सदितिविशेषणादत्रेदानीमयमेव परमोत्कृष्टः कल्पवृक्षस्यासम्भवादिति प्रकाशयति । अत एवैन्द्रध्वजेन सह समस्यैष निर्दिष्टः । पात्रे उक्तं च आर्षे भगवजिनसेनपादैःप्रोक्ता पूजार्हतामिज्या सा चतुर्धा सदार्चनम् । चतुर्मुखमहः कल्प-द्रुमश्चाष्टाह्निकोऽपि च ॥ १ तत्र नित्यमहो नाम शश्वज्जिनगृहं प्रति । स्वगृहान्नीयमानाऽचो गन्धपुष्पाक्षतादिका ।। चैत्यचैत्यालयादीनां भक्त्या निर्मापणं च यत् । शासनीकृत्य दानं च ग्रामादीनां सदार्चनम् ॥ या च पूजा मुनीन्द्राणां नित्यदानानुषङ्गिणी । स च नित्यमहो ज्ञेयो यथा शक्त्युपकल्पितः ।। * अष्टाह्निको महः सार्वजनिको रूड एव सः । २ महामकुटबद्धस्तु क्रियमाणो महामहः ।। ___ चतुमुर्खः स विज्ञेयः सर्वतोभद्र इत्यपि ॥ ३ दत्वा किमिच्छुकं दानं सम्राभिर्यः प्रवर्त्यते । कल्पवृक्षमहः सोऽयं जगदाशाप्रपूरणः ॥ ४ महानैन्द्रध्वजोऽन्यस्तु सुरराजैः कृतो महः ।। बलिस्नपनमित्यन्य-त्रिसंध्यासेवया समम् । उक्तेष्वेव विकल्पेषु ज्ञेयमन्यच्च तादृशम् ॥ एवं विधविधानेन या महेज्या जिनेशिनाम् । विधिज्ञास्तामुशन्तीज्यां वृत्तिं प्राथमकल्पिकीम् ॥ वार्ता विशुद्धवृत्या स्यात्कृष्यादीनामनुष्ठितिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy