________________
१२
सागारधर्मामृते
___टीका-नोत्तप्यते नोत्कृष्टं क्लिश्यते । कोऽसौ, सोऽपि अविरैतसम्यग्दृष्टिः, किं पुनः त्यक्तविषयसुखः सर्वात्मनैकदेशेन वा हिंसादिभ्यो विरतश्चेत्यपिशब्दार्थः । कैः कर्तृभिः, अधैः पापैर्दोषैर्वा बहुभिः । य: किं करोतीत्याहयो भजते सेवते । किंतत्, शर्म सुखम् । किं विशिष्टं, आक्षं अक्षेभ्य इद्रियेभ्य आगतं चक्षुरादिभिरिष्टरूपादीननुभवत आविर्भूतमित्यर्थः । न केवलमिन्द्रियसुखमनुभवति यो रुजत्यपि पीडयति च । कं, परं स्थावरं जगमं वा भूतग्रामं । किं कुर्वन, श्रद्दधत् अभिनिविशमानः । किं, हेयं वैषयिकं सुखं निजमुपादेयमिति । एव तु असावधारणार्थों भिन्नक्रमः । हेयं त्याज्यं न जातु सेव्यं । किं तत्, सुखं । किं विशिष्टं, वैषयिकं विषयेष्विष्टकामिन्यादिष्वमुभूयमानेषु जातं, तत्सेवनस्य दुःखकारणकर्मबन्धनिबन्धनत्वात् । तथा उपादेयं रत्नत्रयोपयोगादात्मन्याविर्भावनीयं । किं तत्, सुखं । किंभूतं, निजं आत्मोथं नित्यं चा । इत्येवं रोचमानो न स्वमेऽप्यन्यथा । कया हेतुभूतया, विश्वदृश्वनः सर्वज्ञस्य आज्ञा शासनमनुलंध्यं तया 'नान्यथा वादिनो जिना' इति दृढतमप्रतिपत्त्येत्यर्थः । एतेन निश्चयसम्यग्दर्शनभाग्भवन्नित्युक्तं वेदितव्यम् । पुनः किंविशिष्टः सन, आत्मनिन्दादिमान् धिग्मामेवं प्रदीपहस्तमप्यन्धकूपे पतन्तमित्यात्मानं निन्दयन्, भगवन्कथमस्मै दुर्गतिदुःखाय घटिष्यते एवमुत्पथचारी जनोऽयमिति गुरुसाक्षिकं गर्हमाणश्च । नन्वेवंभूतो भवन्नपि कुतोऽक्षसुखं सेवते, कुतश्च तदर्थं भूतग्रामं पीडयतीत्याह--भूरेखादिसडकषायवशगो यतः, भूरेखादिभिः पृथ्वीभेदादिभिः सदृशास्तुल्याः कषायाः भूरेखादिकषायाः, दृषदवनीत्यादिसूत्रोक्तलक्षणा अप्रत्याख्यानावरणादयो द्वादश क्रोधादिविकल्पाः तेषां वशः पारतंत्र्यं तं गच्छतीति तद्गश्चरित्रमोहोदयपरतंत्रः संन्नित्यर्थः । क इव, चौर इव तस्करो यथा । किं विशिष्टः, धृतोऽरुद्रः किं कर्तु, मारयितुं । मारयिष्याम्यनमहमिति प्रतिरुद्धः । केन, तलवरेण कोट्टपालेन । अयमों-यथा तलवरेण मारयितुमुपक्रान्तश्चौरो यद्यत्तेन खरारोहणादिकं कार्यते तत्तत्करोति तथा जीवोऽपि चारित्रमोहोदयेन यद्यदात्मनीनं भावगव्यसिंहादिकं कार्यते तत्तदयोग्यं जानन्नपिकरोत्येव, १ न दुःखबीजं शुभदर्शनक्षितौ कदाचन क्षिप्रमपि प्ररोहति ।
सदाप्यनुप्तं सुखबीजमुत्तमं कुदर्शने तद्विपरीतमिष्यते ।। २ णो इन्दिएसु विरदो णो जीवे थावरे तसे वापि ।
जो सद्दहदि जिणुत्तं समाइट्ठी अविरदो सो ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org