________________
प्रथमोध्यायः।
श्रुतस्तामवश्यं कुर्वाणः । अघभीः, अघात्पापात् दृष्टादृष्टापायफलाकर्मणश्चौर्यादेमद्यपानादेश्च बिभ्यत् पापभीररित्यर्थः । एषा संक्षेपतो व्याख्याऽत्र कृता। विस्तरतो धर्मामृतपञ्जिकायां ज्ञानदीपिकासज्ञिकायां कृता, सा सर्वाऽत्र द्रष्टव्या ॥ ११ ॥ साम्प्रतं मन्दमतिविनेयानां सुखस्मृत्यर्थं सकलसागारधर्म सङ्ग्रह्णातिसम्यक्यत्वममलममला
न्यणुगुणशिक्षाव्रतानि मरणान्ते । सल्लेखना च विधिना
पूर्णः सागारधर्मोऽयम् ॥ १२ ॥ टीका-भवति । अयं श्रूयमाणः सागारधर्मः । किंविष्टः, पूर्णः समग्रः । किं किमित्याह-सम्यक्त्वं तावत्किंविशिष्टं, अमलं शङ्कादिदोषरहितं । तथा अणुगुणशिक्षापूर्वाणि व्रतानि अणुगुणशिक्षाव्रतानि अणुव्रतानि गुणव्रतानि शिक्षाव्रतानि च । किंविशिष्टानि, अमलानि निरतिचाराणि । न केवलं निरतिचारतत्त्वार्थश्रद्धानपूर्वाणि निरतिचाराणुव्रतादीनि, किं तर्हि, मरणान्ते विधिना सल्लेखना चेत्ययं सम्पूर्णः श्रावकधर्मः । शेषविशेषणानां यथास्वमत्रैवान्तर्भावादनुक्तसमुच्चयार्थेन चशब्देन समुच्चयनाञ्च । तत्र मरणमेवान्तो मरणान्तस्तद्भवमरणं, नत्वावीचिमरणं तस्य प्रतिक्षणं सर्वप्राणिषु भावात् । सल्लेखना सम्यक् लाभाद्यनपेक्षत्वेन लेखना, बाह्येनाभ्यन्तरेण च तपसा कायकषायाणां कृशीकरणम् । विधिस्तु सप्तदशाध्याये वक्ष्यते । ( यत्प्रति. समयमायुषः कर्मणो निषेकस्योदयपूर्विका निर्जरा भवति तदावीचिमरणम्) असंयमिनोऽपि सम्यग्दृशः कर्मक्लेशापकर्षो भवतीत्युपदेशार्थामदमाह
भूरेखादिसहकषायवशगो यो विश्वदृश्वाशया हेयं वैषायकं सुखं निजमुपादेयं त्विति श्रद्दधत् । चौरों मारयितुं धृतस्तलवरेणेवाऽऽत्मनिन्दादिमान शर्माक्षं भजते रुजत्यपि परं नोत्तप्यते सोऽप्यघैः॥१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org