SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १० सागारधर्मामृते आर्यसमितिः, आर्येषु सदाचरणैकप्राणेषु, न तु कितवधूर्तविटभट्टभण्डनटादिषु, समितिः सङ्गतिर्यस्यासी । प्राज्ञः, ऊहापोहात्मकमतिज्ञानातिशयवान् । कृतज्ञः, कृतं परोपकृतं जानाति न निन्हुते । वैशी, इष्टेष्वर्थेष्वनासक्त्या विरुद्ध वाऽप्रवृत्त्या स्पर्शनादीन्द्रियविकारनिरोधकान्तरङ्गादिषड्वर्गनिगृहपरश्च । शृण्वन् धर्मविधि, धर्मस्याभ्युदयनिश्रेयसहेतोर्विधिः युक्त्यागमाभ्यां प्रतिष्टा तं अण्वन् प्रत्यहमाकर्णयन् । दयालुः, दुःखितदुःखप्रहाणेच्छालक्षणां दयां शीलयन्, 'धर्मस्य मूलं दयेति' १ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । अथ सज्ञानगोष्ठीषु पतिष्यसि पतिष्यसि ॥ २ इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषगजं फलमिदं दशैषा मम । अयं सुहृदयं द्विषत्प्रयतदेशकालाविमाविति प्रातीवतर्कयन्प्रयतते बुधो नेतरः ॥ प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । । किन्नु मे पशुभिस्तुल्यं किन्नु सत्पुरुषैरिति ॥ विवित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् । गुणैरुपेतोऽप्यखिलैः कृतघ्नः समस्तमुद्वेजयते हि लोकम् ॥ भव्यः किं कुशलं ममेति विमृशन्दुःखाभृशं भीतवान् सौख्यैषी श्रवणादिबुद्धिविभवः श्रुत्वा विचार्य स्फुटम् । धर्म शर्मकरं दयागुणमयं युक्त्यागमाभ्यां स्थितं गृह्णन्धर्मकथाश्रुतावधिकृतः शास्यो निरस्ताग्रहः ॥ ५ प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ अवृतिव्याधिशोकार्ता-ननुवर्तेत शक्तितः । आत्मवत्सततं पश्ये-दपि कीटपिपीलिकाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy