________________
प्रथमोध्यायः ।
पणादयः स्वपरोपकारिण आत्मधर्मास्तान् पूजयन् बहुमानप्रशंसा साहाय्य - करणादिना समुल्लासयन्, तथा गुरवो मातापितरावाचार्यश्च तानपि पूजयन् त्रिसन्ध्यप्रणामकरणादिनोपचरन्, तथा गुणैर्ज्ञानसंयमादिभिर्गुरवो महान्तो गुणगुरवस्तानपि यजन् सेवाञ्जल्यासनाभ्युत्थानादिकरणगणेन मानयन्, गुणाश्च गुरवश्च गुणगुरवश्चेति विगृह्यैकशेषेण गुणगुरवस्तान् । सैद्गीः, सती प्रशस्ता परावर्णवादपारुण्यादिदोषरहिता गीर्वाग्यस्यासौ सद्गीः । त्रिवर्ग भजन्नन्योन्यानुगुणं, परस्परानुपघातकं त्रिवर्ग धर्मार्थकामान् भजन् सेवमानः । तदहं गृहिणीस्थानालयः, गृहिणी कौलीन्यादिगुणालङ्कृता पत्नी, स्थानं पुरग्रामादि वास्तु च, आलयो गृहं, गृहिणी च स्थानं च आलयश्च गृहिणीस्थानालयाः, तदहीस्त्रिवर्गयोग्या गृहिणीस्थानालया यस्य सः तथाक्तः । हीमयः, लज्जाया निवृत्त इव लज्जाभूयिष्ठो वा । युक्ता हारविहारः, युक्तौ शास्त्रविहितावाहारविहारौ भोजनविचरणे यस्य सः ।
३
१ यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ यदिच्छसि वशीकर्तुं जगदेकेन कर्मणा । परापवादशस्येभ्यो गां चरन्तीं निवारय ॥ परपरिभवपरिवादा-दात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभव-मनेकभवकोटिदुर्मोचम् ॥ यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ पादमायान्निधिं कुर्यात्पादं वित्ताय खट्वयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ आयार्द्धं च नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छ मैहिकम् ॥ ४ अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता
२
तत्पादार्पितदृष्टिरासनविधौ तस्योपचर्या स्वयं । सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राज्ञैः पुत्रि निवेदिताः कुलवधूसिद्धांतधर्मा इमे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org