________________
सागारधर्मामृते
तथोक्तः । असौ भूयात् प्रतिभासेत । किंवत्,तद्वत् रुचिमानिव। केषां सांव्यवहारिकाणां सुनयप्रयोक्तृणाम् । केषु मध्ये,रुचिमत्सु सुदृष्टिषु दीप्तिमन्मणिषु च मध्ये। किंविशिष्टोऽपि हीनोऽपि रिक्तोऽल्पो वा । कया, रुच्या शुध्द्या दीप्तया किं पुना रुचिसम्पन्न इत्यपिशब्दार्थः । एतेनाव्युत्पन्नसम्यक्त्वानां सुदृष्टिषु च मध्ये गणनीयतोपदिष्टा । सुदृष्टिवत्तेऽपि सतां मान्या भवन्तीति भावः । एवं देश्यदेशको व्यवस्थाप्य सागारधर्माचारिणमगारिणं लक्षयितुमाहन्यायोपात्तधनो यजन् गुणगुरून् सद्गीत्रिवर्ग भज
नन्योन्यानुगुणं तदहगृहिणीस्थानालयो हीमयः । युक्ताहारविहार आर्यसमितिः प्राज्ञः कृतज्ञो वशी
शृण्वन् धर्मविधि दयालुरघभीः सागारधर्म चरेत्॥११॥ टीका-अत्र ‘पूज्याश्चाई' इत्यनेनाहे सप्तमी । चरितुमर्ह. तीत्यर्थः । विधौ वा, यथोक्तगुणेन गृहिणा सागारधर्मश्चरितव्य इत्यर्थः । अत्र पूर्वो भद्रक उत्तरो द्रव्यपाक्षिक इति विभागः। चरेत् अनुतिष्ठेत् । कोऽसौ, 'न्यायोपात्तधन' इत्यादिविशेषणेश्चतुर्दशभिः समस्तैर्व्यस्तैर्वा विशिष्टो गृही। कं,सागारधर्ममिति वाक्यार्थः । इतो विशेषणानि व्याख्यायन्ते । न्यायोपात्तधनः, स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायः तेनोपात्तमुपार्जितमात्मसात्कृतं धनं विभवो येन स तथोक्तः । यजन् गुणगुरून्, गुणा: संदाचारसौजन्यौदार्यदाक्षिण्यस्थैर्यप्रियपूर्वकप्रथमाभिभा. १ सर्वत्र शुचयो धीराः सुकर्मबलगर्विताः ।
स्वकर्मनिहितात्मानः पापाः सर्वत्र शडिताः ॥ अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे समूलं च विनश्यति ॥ यान्ति न्यायप्रवृत्तस्य तियञ्चोपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org