SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमोध्यायः । नाथामह इत्यर्थः । क्व, अत्र क्षेत्रे । कदा, अद्य अस्मिन्काले । अमुमेवार्थमुत्तरा. ईन समर्थयते । हि यस्मादर्थे । को न स्पृहयेत् नाभिलषेत् । कस्मै, हेमाश्मलाभाय सुवर्णोपलप्राप्त्यर्थं । क्व सति, हेम्नि सुवर्णे । किंविशिष्टे, अलभ्ये लब्धुमशक्ये ॥ २ ॥ भद्रकस्य लक्षणमुक्त्वा तस्यैव द्रव्यतया देशनार्हत्वमाह कुधर्मस्थोऽपि सद्धर्म लघुकर्मतयाद्विषन् । भद्रः स देश्यो द्रव्यत्वा-नाभद्रस्तद्विपर्ययात् ॥ ९॥ टीका-भण्यते । कोऽसौ, भद्रः । किं कुर्वन् , अद्विषन् द्वेषविषयमकुर्वन् । कं, सद्धर्म सन् समीचीनः प्रमाणोपपन्नो धर्मोऽभ्युदयनिःश्रेयसोपायस्तम् । कया, लघुकर्मतया लघु अल्पं कर्म सद्धर्मद्वेषनिमित्तं मिथ्यात्वं यस्य सोयं लघुकर्मास्तस्य भावस्तत्ता तया लघुकर्मतया । किंविशिष्टोऽपि, कुधर्मस्थे प्रमाणबाधिते धर्मे आसक्तः, न केवलमुभयोर्मध्यस्थ इत्यपिशब्दार्थः । किं पुनरसावित्याह-देश्य:,धर्मे व्युत्पादनीयः। कोऽसौ,स भद्रः। कस्मात्,द्रव्यत्वात् आगामिसम्यक्त्वगुणयोग्यत्वात् । न पुनर्देश्यः । कोऽसौ अभद्रः कुधर्मस्थः सद्धर्म गुरुकर्मतया द्विषन् कस्मात्, आगामिसम्यक्त्वगुणयोग्यत्वाभावात् । इदानीमाप्तोपदेशसम्पादितशुश्रूषादिगुणः सम्यक्त्वहीनोऽपि तद्वानिव सद्भूतव्यवहारभाजां प्रतिभासते इति निदर्शनेन प्रव्यक्तीकरोति शलाकयेवाप्तगिराऽऽप्तसूत्र प्रवेशमार्गो माणिवच यः स्यात् । हीनोऽपि रुच्या रुचिमत्सु तद्वद् भूयादसौ सांव्यवहारिकाणाम् ॥ १०॥ टीका-यः पुरुषः स्यात् भवेत् । किंविशिष्टः, आप्तसूत्रप्रवेशमार्ग एव । चशब्दस्यात्रावधारणार्थस्य योजनात् । सूत्रं परमागमः, प्रवेशमार्गः शुश्रूषादिगुणः, सूत्रस्य प्रवेशमार्गोऽन्तस्तत्त्वपरिच्छेदनोपायः सूत्रप्रवेशमार्गः, आप्तः प्राप्तः सूत्रप्रवेशमार्गो येन स तथोक्तः । कया, आप्तगिरा सद्गुरुवाचा। कयेव, शलाकयेव छिद्रकरवज्रसूचिकया यथा । किंवत्, मणिवत् यथा मणिः शलाकया आप्तप्रवेशमार्गः स्यात्,आप्तःप्राप्तः सूत्रस्य तन्तोः प्रवेशमार्ग:छिद्रं येन स Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy