SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते NA साम्प्रतं योऽयं सम्यक्त्वसामय्यां सत्यां सम्यग्गुरूपदेशोऽवश्यमृग्यस्तःस्येदानीमत्र समुपदेष्टणां प्रविरलत्वानुशोचनद्वारेण दुर्लभत्वं लक्षयति कलिप्रावृषि मिथ्यादि-मेघच्छन्नासु दिविह । खद्योतवत्सुदेष्टारो हि द्योतन्ते क्वचित्कचित् ॥ ७ ॥ टीका-द्योतन्ते प्रकाशन्ते आत्मानं दर्शयन्ति दृश्यन्ते इत्यर्थः । के ते, सुदेष्टारः सु शोभनं निर्बाधं सम्पूर्ण वा जीवादितत्वं दिशत्युपदिशन्तीति सुदेष्टारः सम्यग्गुरवः । क्वचित्क्वचित्, क्वापि क्वापि न सर्वत्र । कस्मिन् , इह भरतक्षेत्रे। किंवत्, खद्योतवत् ज्योतिरिगणा यथा । कासु सतीषु, दिक्षु सदुपदेशेषु ककुप्सु च । किंविशिष्टासु, मिथ्या सर्वथैकान्तविषयत्वादसत्या दिशो बौद्धादिवायुपदेशास्त एव मेघा दिशामिवानेकान्तोपदेशनावारकत्वात् तैश्च्छन्नासु छादितासुप्रतीत्यविषयीकृतासु। कदा, कलिप्रावृषि कलिः दुष्षमाख्यः पञ्चमकाल: स एव प्रावृड् वर्षाकालस्तत्र । अयमर्थः-यदा वर्षाकाले मेघाच्छादितासु दिक्षु सूर्यादिप्रकाशाभावे क्वचित्क्वचित्प्रदेशे खद्योता द्योतन्ते तथेह दुष्षमायां क्वचित्कचिदार्यदेशे सदुपदेष्टारः प्रकाशन्ते न पुनः कृतयुगादिवद्यत्रतत्रश्रुतकेवलिनः केवलिनो वा दृश्यन्ते इति । हि-शब्देन कष्टार्थेनान्तस्तापमभिव्यनक्ति। इह दुष्षमासमयसामर्थ्यादेशिकवद्देश्यानामपि दर्शनमोहोदयाक्रान्तचित्त तया देशनानहत्वात्प्रायो भद्रका अपि पुरुषा देशनायां भूयासुरित्याशास्ते नाथामहेऽद्य भद्राणा-मप्यत्र किमु सदृशाम् । हेम्न्यलभ्ये हि हेमाश्म-लाभाय स्पृहयेन कः ॥ ८॥ टीका-नाथामहे भद्रका अपि जीवा देशनार्हा भूयासुरित्याशास्महे ! के, वयं । केषां, भद्राणामपि । किमु, किं पुनः । सदृशां सम्यग्दृष्टीनां विशेषतो. १ विद्वन्मन्यतया सदस्यतितरामुद्दण्डवाग्डम्बराः शृंगारादिरसैः प्रमोदजनकं व्याख्यानमातन्वते । ये ते च प्रतिसभ सन्ति बहवो व्यामोहविस्तारिणो येभ्यस्तत्परमात्मतत्वविषयं ज्ञानं तु ते दुर्लभाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy