________________
प्रथमोध्यायः ।
चिद्वैकृतं । केषां, अन्येषां सज्ञिपञ्चेन्द्रियाणां। तथा शल्यति बहुदुःखहेतुत्वाच्छरीरान्तःप्रविष्टकाण्डादिवदाचारति । किं तत्, मिथ्यात्वं । किमाख्यं, सांशयिकं मिथ्यात्वकर्मोदये सति ज्ञानावरणोदयविशेषवशात् किमिदं जीवादि वस्तु यथा जैनैरनेकान्तात्मकमुच्यते तथा स्यादुतस्विदन्यथेति चलिता प्रतीतिः संशयः, संशये भवं सांशयिकं कचिदप्राप्तनिश्चयमात्मस्वरूपं । केषां तत्तथा स्यादित्याह-परेषाम् इन्द्राचार्यादीनाम् ॥ ५ ॥
नन्वविद्यामूलामिथ्यात्वनिर्मथनसमर्थस्य सम्यक्त्वपरिणामस्य कतमा प्रादुर्भावनसामग्रीत्यनुयोगे सतीदमुच्यते
आसन्नभव्यताकर्म-हानिसज्ञित्वशुद्धिभाक् ।
देशनाद्यस्तमिथ्यात्वो जीवः सम्यक्त्वमश्रुते ॥६॥ टीका-अश्नते प्राप्नोति । कोऽसौ, जीव आत्मा । किं तत्, सम्यक्त्वं तत्वार्थश्रद्धानं । किंविशिष्टः. सन्, आसन्नभव्यताकर्महानिसज्ञित्वशुद्धि भाक्, भव्यो रत्नत्रयाविर्भावृयोग्यो जीवः, आसन्नः कतिपयभवप्राप्यनिर्वाणपदः, आसन्नश्चासौ भव्यश्वासनभव्यस्तस्य भाव आसन्नभव्यता, कर्महानिर्मिथ्यात्वादीनां सम्यक्त्वप्रतिबन्धककर्मणां यथासम्भवमुपशमः क्षयोपशमः क्षयो चा, सज्ञा शिक्षांक्रियालापोपदेशग्राहित्वं सज्ञाऽस्यास्तीति सज्ञी सज्ञिनो भावः सज्ञित्वं,
मनोऽवष्टम्भतः शिक्षा-क्रियालापोपदेशवित् ।
येषां ते सज्ञिनो मां वृषकीरगजादयः ॥ इति । शुद्धिर्विशुद्धपरिणामः, आसन्नभव्यता च कर्महानिश्च सज्ञित्वं च शुद्धिश्चेतीतरेतरयोगे द्वन्द्वे सति ताश्चतस्रो भजते सेवते ततो नापतीति तद्भागन्तरङ्गसम्यग्दर्शनादिभावकारणसम्पन्न इत्यर्थः । पुन: किंविशिष्टः, देशनाद्यस्तमिथ्यात्वः देशना सम्यग्गुरूपदेशः सा आदिर्यस्य जातिस्मरणजिनप्रतिमादर्शनादेर्बहिरङ्गकारणकलापस्य स देशनादिः तेन अस्तं निराकृतमुपशमाद्यवस्था नीतं मिथ्यात्वं दर्शनमोहाख्यं कर्म तद्धेतुको वा सर्वथैकान्ताभिनिवेशो यस्य स तथोक्तः ॥ ६॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org