________________
सागारधर्मामृते
vvvv
मनो येषां ते। क्व सति, नरत्वेऽपि, नरा हि प्रायो विचारचतुरचेतसः किल प्रसिद्धास्तद्भवेऽपि सति किं पुनस्तिर्यगादिभवे इत्यपिशद्धार्थः । एवमविद्यामूलकारणं मिथ्यादर्शनं विभाव्य विद्यामूलकारणं सम्यग्दर्शनं भावयितुमाह-पशुत्वेऽपीत्यादि, नरायन्ते हिताहितविचारचतुरतया नरा इवाचरन्ति । के ते, सम्यक्त्वव्यक्तचेतना: सम्यक्त्वेन तत्त्वार्थश्रद्धानलक्षणेन सम्यग्दर्शनपरिणामेन व्यक्ता शमसंवेगानुकम्पास्तिक्यानुभावैःप्रतीतियाग्या कृता चेतना चैतन्यसम्पद् येषां ते । क्व सति, पशुत्वेऽपि, पशवस्तिर्यञ्चस्ते चात्र सज्ञिन एव । जात्या तिर्यग्भावेऽपि सति सम्यक्त्वमाहात्म्याद्धेयोपादेयतत्त्वज्ञाः पशवोऽपि भवन्ति किं पुनर्मनुष्यादय इत्यपिशब्दार्थः ॥ ४ ॥
एवं सामान्यतो मिथ्यात्वानुभावं प्रदश्येदानीं तस्य त्रिविधस्याप्यनुभावमुपमानैरनुभावयितुमाह..केषाश्चिदन्धतमसा-यतेऽगृहीतं ग्रहायतेऽन्येषाम् ।
मिथ्यात्वमिह गृहीतं शल्यति सांशयिकमपरेषाम् ॥५॥ ___टीका-अन्धतमसायते घोराज्ञानविवर्तहेतुतया निबिडांधकारवदाचरति। किं तत्, मिथ्यात्वं । किविशिष्टमगृहीतं परोपदेशमन्तरेण प्रवृत्तत्वादनुपात्तं अनादिसन्तत्या प्रवर्तमानस्तत्वारुचिरूपश्चित्परिणाम इत्यर्थः । केषां तत्तथा स्यादित्याह-केषाञ्चित् एकेन्द्रियादिसज्ञिपञ्चेन्द्रियपर्यन्तानां । क्व, इह संसारे। तथा ग्रहायते विविधाकारकारितया ग्रहवदाचरति भूतावेशवद्विवर्तत इत्यर्थः ।। किंतत्, मिथ्यात्वं। किंविशिष्टं, गृहीतं परोपदेशादुपात्तमतत्त्वाभिनिवेशलक्षणं
१ रागादिषु च दोषेषु चित्तवृत्तिनिबर्हणम् । __ तं प्राहुः प्रशमं प्राज्ञाः समन्ताद्रव्रतभूषणम् ॥ २ शारीरमानसागन्तु-वेदनाप्रभवाद्भवात् ।
स्वप्रेन्द्रजालसंकल्पा-द्भीतिः संवेग उच्यते ॥ ३ सत्वे सर्वत्र चित्तस्य दयार्द्रत्वं दयालवः ।
धर्मस्य परमं मूल-मनुकम्पां प्रचक्षते ॥ ४ आप्ते श्रुते व्रते तत्त्वे चित्तमस्तिक्यसंयुतम् ।
आस्तिक्यमास्तिकैरुक्तं युक्तं युक्तिधरेण वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org