SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रथमोध्यायः । ज्वराश्च अनाद्यविद्यादोषोत्थचतुः सञ्ज्ञाज्वराः तैरातुराः कदर्शिताः । यत एवम्भूतास्ततः शश्वत्स्वज्ञानविमुखाः । अत एव च नित्यं विषयोन्मुखाः स्वपरप्रकाशात्मकत्वादात्मनो विमुखाः ॥ २॥ भङ्गयन्तरेण तानेवाह 1 अनाद्यविद्यानुस्यूतां ग्रन्थसञ्ज्ञामपासितुम् । अपारयन्तः सागाराः प्रायो विषयमूर्च्छिताः ॥ ३॥ टीका - अत्रापि भवन्तीति क्रियाध्याहारः । एवमश्रूयमाणं क्रियापदं पुरस्तादप्यध्याहार्यम् | भवन्ति । के ते, सागाराः । किंविशिष्टाः विषयमूर्च्छिताः कामिन्यादिविषयेषु ममेदं भोग्यमहमस्य स्वामीत्येवं ममकाराहङ्कारविकल्पपरतन्त्रतयाऽध्यवसिताः । कथं प्रायो, बाहुल्येन सुदृष्टयोऽपि चारित्रावरणकर्मोदयवशादेवं पर्यवसन्नाः सम्यग्दृष्टयः | ये तु केचिज्जन्मान्तराभ्यस्तरत्नयानुभावात्साम्राज्यादिश्रियमप्यनुभवन्तोऽसंतीनाथोपभोगन्यायेन तत्त्वज्ञानदेशसंयमप्रणिधानपरत्वेन भुज्जाना अन्यभुज्जानवदवभासन्ते तद्व्यभिचारप्रदर्शनार्थं प्राय इत्युच्यते । किं कुर्वन्तस्ते तथा भवन्तीत्याह- अपारयन्तः अशक्नुवन्तः । किं कर्तुं अफासितुं निराकर्तुं । कां, ग्रन्थसञ्ज्ञां ग्रन्थे परिग्रहे सज्ञा ममेदमिति मूर्च्छापरिणामस्तां । किंविशिष्टां, अनाद्यविद्ययाऽनुस्यूतां - बीजाङ्कुरन्यायेन सन्तत्या प्रवर्तमाना ताम् ॥ ३ ॥ एवं सागारान् लक्षयित्त्वा तद्भावाभावनिदानयोरविद्याविद्ययोर्बोजोपदेशार्थमिदमाह --- नरत्वेऽपि पश्यन्ते मिथ्यात्वग्रस्तचेतसः । पशुत्वेऽपि नरायन्ते सम्यक्त्वव्यक्तचेतनाः ॥ ४ ॥ M टीका - पशूयन्ते हिताहितविवेक विकलतया पशव इवाचरन्ति । के ते, मिथ्यात्वग्रस्तचेतसः मिथ्यात्वेन विपरीताभिनिवेशेन ग्रस्तमाविष्टं चेतो १ धात्रीबालासतीनाथ- पद्मिनीचलवारिवत् । दग्धरज्जुवदाभाति भुञ्जानोऽपि न पापभाक् ॥ २ वपुर्गृहं धनं दाराः पुत्रमित्राणि शत्रवः । सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy