________________
सागारधर्मामृते
wwwwwwwwwwwwwwwwww
शिष्टान् , अक्षूणचरणान् अक्षुणं सम्पूर्ण सकलमोहप्रक्षयादाविर्भूतत्वेन नित्यं निर्मलं चरणं यथाख्यातचारित्रं येषां ते अक्षुणचरणास्तान् । न केवलमहतो नत्वा श्रमणानपि नमस्कृत्य, श्राम्यन्ति बाह्यमाभ्यन्तरं च तपश्चरन्तीति श्रमणा आचार्योपाध्यायसाधवस्तान् । किंविशिष्टान्, अथूणचरणान् अक्षुणं भावनाविशेषबलादनतिचारं चारित्रं क्षायोपशमिकसंयमपरिणामो येषां ते तान् । कथं अथ, अथेतिशब्दो मङ्गलार्थः अधिकारार्थो वा। इतः सागारधर्मोऽधिक्रियते इत्यर्थः ॥ १॥ किं लक्षणाः सागारा इत्याह
अनाद्यविद्यादोषोत्थ-चतुःसञ्जाज्वरातुराः।
शश्वत्स्वज्ञानविमुखाः सागारा विषयोन्मुखाः ॥ २॥ टीका-अत्र भवन्तीति क्रियाध्याहारः । भवन्ति । के, सागाराः अगारं गृहं सकलपरिग्रहोपलक्षणं सह अगारेण वर्तन्ते इति सागाराः । एतदेव अनाद्यविद्येत्यादिविशेषणत्रयेण स्फुटयति-किंविशिष्टाः सागारा भवन्ति, शश्वत्स्वज्ञानविमुखाः शश्वदनवरतं स्वज्ञाने
“एगो मे सासदो आदा णाणदंसणलक्खणो।
सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ॥" इत्यादिपरमागमप्ररूपिते स्वात्मावबोधे विमुखाः पराङ्मुखाः, तत्र मुख्यतयाऽनुपयुक्ता इत्यर्थः । पुनः किंविशिष्टाः, विषयोन्मुखाः विषयेष्विष्टेषु स्रक्कामिन्यादिष्वनिष्टेषु च दुर्भोजनदुर्व्यसनादिषु उन्मुखाः रागात् द्वेषाच्च व्यापृताः उद्युक्ताः। कुत एतदिति हेतुं प्रथमान्तत्वेन निर्दिशति । पुनः किंविशिष्टाः, अनाद्यविद्यादोषोत्थचतु:सञ्जाज्वरातुराः अविद्या अनित्याशुचिदुःखानात्मसु विपरीतख्यातिः, यस्मात्पूर्व नास्ति स आदिः, नास्त्यादियस्याः साऽनादिः, अनादिश्चासौ अविद्या च अनाद्यविद्या, सैव दोषो वातपित्तकफानां वैषम्यम्, उत्थानमुत्था उद्भूतिः, अनाद्यविद्यादोषादुत्था येषां ते अनाद्यविद्यादोषोत्थाः, सज्ञाः आहाराद्यभिलाषानुभवनसंस्काररूपाश्चतस्रः, तथा ज्वराः प्राकृतो वैकृतश्चेति द्वौ प्रत्येकं साध्योऽसाध्यश्चेति चत्वारः, सञ्ज्ञा एव ज्वरा मोहसन्तापरूपत्वात् सज्ञाज्वराः, चत्वारश्च ते सज्ञाज्वराश्च चतुःसञ्जाज्वराः, अनाद्यविद्यादोषोत्थाश्च ते चतुस्सज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org