SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ नमो वीतरागाय। सटीकं सागारधर्मामृतम् । श्रीवर्द्धमानमानम्य मन्दबुद्धिप्रबुद्धये । धर्मामृतोक्तसागार-धर्मटीका करोम्यहम् ॥ १॥ समर्थनादि यन्नात्र ब्रुवे व्यासभयात्कचित् । तज्ज्ञानदीपिकाख्यैत-त्पनिकायां विलोक्यताम् ॥२॥ अथ चतुर्थाध्याये सुदृग्बोधो गलवृत्त-मोहो विषयनिःस्पृहः । हिंसादेर्विरतः काढून्या-द्यतिः स्याच्छ्रावकोऽशतः॥ इत्युक्तम् । अतो मध्यमङ्गलविधानपूर्वकं विनेयान्प्रति सागारधर्मामृतं प्रतिपाद्यतया प्रतिजानीते अथ नत्वाहतोलण-चरणान् श्रमणानपि । तद्धर्मरागिणां धर्मः सागाराणां प्रणेष्यते ॥ १॥ टीका--प्रणेष्यते प्रतिपादयिष्यतेऽस्माभिः। कः, 'उक्तकर्मतापन्नः धर्मः एकदेशविरतिलक्षणं चारित्रम् । केषां, सागाराणां वक्ष्यमाणलक्षणानां गृहस्थानाम् । किंविशिष्टानां, तद्धर्मरागिणां तेषां श्रमणानां धर्मे सर्वविरतिरूपे चारित्रे रागिणां संहननादिदोषादकुर्वतामपि प्रीतिमताम्, यतिधर्मानुरागरहितानामगारिणां देशविरतेरप्यसम्यग्रूपत्वात् । सर्वविरतिलालसः खलु देशविरतिपरिणामः । किं कृत्वा प्रणेष्यते, नत्वा शिरः प्रव्हीकरणादिना विशुद्धमनोनियोगेन च पूजयित्वा । कान्, अर्हतस्तीर्थकरपरमदेवान् । किंवि १ प्रणयनक्रियाकर्मतापनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy