SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १४ राजीमतीविप्रलम्भकाव्यं सटीकम् । १५ अध्यात्मरहस्यं ( योगशास्त्रं )। १६ रत्नत्रयविधानम् । · अनेनेति संभवति यत् त्रयोदशशताब्दतः पश्चात् तेनान्येषामपि ग्रंथानां रचना कृता स्यात् । येषामुल्लेख एतत्प्रशस्तिषु नास्ति । पूर्वोक्तेषु ग्रंथेषु मध्येऽधुना जिनयज्ञकल्पं, सागारधर्मामृतं, अनागारधर्मामृतं,जिनसहस्रनाम,नित्यमहोद्योतं, इष्टोपदेश इत्यादयो ग्रंथा उपलभ्यते । शेषग्रन्थानामन्वेषणं भवितव्यं ।। आशाधरस्य रचनातीवक्लिष्टास्ति ज्ञायते चात एव तेन प्रायः स्वनिर्मितसकलानामपि ग्रन्थानामुपरि टीका लिखिता संति । एतत्सागारधर्मामृतस्य तु तेन द्वे टीके रचिते तथापि तस्य कृतौ तदसाधारणपाण्डित्यमनुमीयते । अन्यग्रन्थसदृशं तस्यायं ग्रंथोऽपि अतीव महनीयोऽस्ति, अनेनैव च कारणेनायं प्रकाश्यते, श्रावकाचारस्यान्य ईदृग्विस्तृतो विशदश्च ग्रन्थो नास्ति । इति कृतं पल्लवितेन । निवेदकः नाथूरामप्रेमी। मल्लिखित विद्वद्रनमालायामाशाधरविषये एको विस्तृतो लेखोस्ति, ये महाशयाः पिपठिषवस्ते 'जैनमित्र आफिस, हीराबाग, बंबई' इति स्थानत आनाय्य पटंतु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy