________________
अर्जुनवर्मणः कोऽपि पुत्रो नासीत् अतस्तस्य प्रपितामहजयवर्मणो भ्रातुर्लक्ष्मीवर्मणः पौत्रो देवपालः साहसमल्लाप राख्यो राजसिंहासनं लब्धवान् । अस्यैव देवपालस्य समये आशाधरेण स्वीयजिनयज्ञकल्प ( प्रतिष्ठापाठ ) रचयित्वा समाप्तिं नीतम् । देवपालानंतरं तत्पुत्रो जैतुगिदेवो जयसिंहापराख्यो राजा बभूव ।
र्मामृतस्य ा पण्णवत्यधिकद्वादशशतविक्रमाब्दे १२९६ अनागारधर्मामृतस्य टीका त्रयोदशशतविक्रमाब्दे १३०० यदा समाप्तिमगात्तदा जैतुगिदेवस्यैव शासनकाल आसीत् । आशाधरो निजग्रंथप्रशस्तिषु स्वनिर्मितनिम्नलिखित ग्रंथानामुल्लेख करोति
१ प्रमेयरत्नाकरः ( न्यायग्रन्थः ) |
२ भरतेश्वराभ्युदयकाव्यं स्वोपज्ञटीकासहितं ।
२ धर्मामृतशास्त्रं - अस्य द्वौ भागौ स्तः । एको अनागारो द्वितीयः सागरः । द्वावपि भागौ स्वोपज्ञटीकासमलंकृतौ । सागारभागस्यैका पंजिकानाम्नी टीकापि स्वोपज्ञास्ति ।
I
४ अष्टांगहृदयोद्योतिनी टीका - इयं वाग्भटसंहिताख्यसुप्रसिद्धवैद्यकग्रंथस्य टीकाsस्ति ।
५ आराधनासारटीका ।
६ इष्टोपदेशटीका - इयं पूज्यपादकृतेष्ठोपदेशस्य टीका ।
७ अमरकोषस्य क्रियाकलापटीका ।
८ भूपालचर्तु विंशतिका टीका ।
९ काव्यालंकारटीका - रुद्रटस्य प्रख्यातालंकारग्रंथस्य टीका |
१० जिनसहस्रनाम सटीकम् ।
११ जिनयज्ञकल्पं सटीकम् । १२ त्रिषष्ठिस्मृतिशास्त्रं सटीकम् । १३ नित्यमहोद्योतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org