________________
स्वोपजधर्मामृतटीकायां 'स बालसरस्वती महाकविमदन' इति कथितः । तेन निर्मिता 'परिजातमंजरी ' नाम्नी एका नाटिकास्ति ।।
विक्रमीयपंचषठ्यधिकद्वादशशतपीरमिताब्दे १२६५ आशाधरेण धारानगरी त्यक्ता नलकच्छपुरे च गत्वाऽऽवासः कृतः । यमधुना 'नालछा ' इति कथयति । नलकच्छपुरं धारातः क्रोशदशकं दूरे वर्तते तत्र श्रावकाणां निवासो विपुल आसोत् । तदा मालवप्रांतस्य नृपोऽर्जुनवर्मदेव आसीत् ।
नलकच्छपुरं गत्वा निवासकारणमाशाधरो निजप्रशस्ता जिनधर्मोद्योतनेच्छां प्रकटयति । अनेन ज्ञायते यदस्मिन् समये तेन गृहस्थाश्रमात्संबंधस्त्यक्तः। स च कश्चिदुच्चप्रतिमाधारकः श्रावक इव निवसतिस्म । तन्निर्मितजिनसहस्रनाम स्तोत्रस्य निम्नश्लोकैः प्रतीयते यत्स गृहस्थाश्रमादुदासीनो जातः ।--
प्रभो भवाङ्गभोगेषु निर्विष्णो दुःखभीरुकः । एष विज्ञापयामि त्वां शरण्यं करुणार्णवम् ॥ १ ॥ सुखलालसया मोहाद् भ्राम्यन्बहिरितस्ततः । सुखैकहेतोर्नामापि स्तवनं ज्ञातवान् पुरा ॥२॥ अद्य मोहग्रहावेशशैथिल्यात्किंचिदुन्मुखः ।
अनन्तगुणमाप्तेभ्यस्त्वां श्रुत्वास्तोतुमुद्यतः ॥ ३॥ ज्ञायते यदाशाधरोऽन्तिमसमयपर्यंतं नलकच्छपुरे एव न्यवसत् । तन्निर्मितैप्रा प्यग्रंथेषु अनागारधर्मामृतस्य टीका निखिलग्रंथभ्यः पश्चादर्थात् त्रयोदशशतविक्रमाब्दे १३०० रचितास्ति, सा च नलकच्छपुरस्थनेमिनाथचैत्यालये पूर्णतां गता । तस्यान्येऽपि प्राप्यग्रन्था तत्पुरे एव रचिताः संति । ___ आशाधरः त्रयोदशशतविक्रमाब्दतः १३०० पश्चात् कदापर्यंतं जीवित इति बोध्दुं किमपि साधनं नास्ति । तथापि तेन महदायुः प्राप्तं स्यात् । पूर्वोक्ताब्दकाले स वृद्ध एव जातः स्यात् । तेन धारागमनानंतरं मालवदेशे नृपपंचकं सिंहासनासीनं दृष्टं भवेत् । विंध्यवर्मसमये धारां समागतः। विंध्यवर्मणस्तनुजः सुभटवर्मा जातः । सुभटवमसून्वर्जुनवर्मणः समये स नलकच्छपुरमागतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org