________________
प्रथमोध्यायः।
दुर्निवारत्वात्स्वकाले विपच्यमानस्य कर्मणः । एतेन सम्यक्त्वग्रहणात्पूर्वमब-- द्घायुषोऽसंयतस्यापि सम्यग्दृष्टेः सुदेवत्वसुमानुषत्वव्यतिरेकेण सकलसंसारसंहरणात् कर्मक्लेशापकर्षः । बद्धायुषस्तु पश्चादगृहीतसम्यक्त्वस्य नरकगतेरपि रत्नप्रभायां जघन्यस्थित्यैवानुभवनसम्भवात् बहुदुःखोपरमश्च प्रतिपादितः प्रतिपत्तव्यः । ततः संयमलब्धिकालात्पूर्व संसारभीरुणा भव्येन सम्यग्दर्शनाराधनायां नित्यं यतितव्यमिति विधौ पर्यवसन्नमेतत्सूत्रमधिगन्तव्यम् ।
इदानीं धर्मशर्मवद्यशोऽपि मनःप्रसत्तिनिमित्तत्वात् शिष्टैरवश्यं सेव्यमिव्युपदेष्टुमाह--
धर्म यशः शर्म च सेवमानाः __ केऽप्येकशो जन्म विदुः कृतार्थम् । अन्ये द्विशो विन वयं त्वमोघा
न्यहानि यान्ति त्रयसेवयैव ।। १४ ॥ टीका-विदुः जानन्ति । के, केऽपि लौकिकाः । किं तत्, जन्म मनुष्यभवग्रहणम् । किंविशिष्टं, कृतार्थ कृतः साधितोऽर्थः प्रयोजनं साध्यं यस्य तत् । किंकुर्वाणाः, सेवमानाः कर्तव्यतानुरक्तबुद्धया साधयन्तः। कं,धर्म सुकृतम्, यशः कीर्तिम्, शर्म सुखम् । कथम् , एकशः एकैकम् । केचिद्धर्ममानं केचिद्यशोमात्रं केचिच्च सुखमात्रं साधयन्तो वयं प्राप्तमनुष्यजन्मफला इति मन्यन्ते. नानारुचित्वाल्लोकस्य । तथा अन्ये लोकच्छन्दानुवर्तिन: शास्त्रज्ञम्मन्याः विदुः । किं,जन्म । किम्भूतं,कृतार्थम् । किं कुर्वाणाः, धर्म यशः शर्म च सेवमानाः । कथं,द्विशः द्वे द्वे । केचिद्धर्मयशसी केचिद्धर्मशर्मणी केचिद्यशःशर्मणी च साधयन्तो जन्म फलवन्मन्यन्त इत्यर्थः। तर्हि युष्माकं किं मतमित्यत्राह१ दुर्गतावायुषोबन्धात्सम्यक्त्वं यस्य जायते ।
गतिच्छेदो न तस्यास्ति तथाप्यल्पतरा स्थितिः ॥ २ जन्मोन्माज्यं भजतु भवतः पादपद्मं न लभ्यं
तच्चेत्स्वैरं चरतु न च दुर्देवतां सेवतां सः । अनात्यन्नं यदिह सुलभं दुर्लभं चेन्मुधाऽऽस्ते क्षुद्यावृत्यै कवलयति कः कालकूटं बुभुक्षुः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org