________________
२४३
amarrma
→-0६
-
ग्रन्थकर्तुः प्रशस्तिः ।
प्रन्थकर्तुः प्रशस्तिः । श्रीमानस्ति सपादलक्षविषयः शाकंभरीभूषणस्तत्र श्रीरतिधाम मण्डलकरं नामास्ति दुर्ग महत् । श्रीरल्यामुदपादि तत्र विमलव्याघेरवालान्वया
च्छ्रीसल्लक्षणतो जिनेन्द्रसमयश्रद्धालुराशाधरः ॥१॥ श्रीमान् त्रिवर्गसंपत्तियुक्तः । शाकंभरी लवणाकरविशेषः। श्रीरतिधाम लक्ष्मीक्रीडागृहं श्रीरन्यां रत्नीति कविमातुः संज्ञा उदपादि उत्पन्नः ॥१॥ सरस्वत्यामिवात्मानं सरस्वत्यामजीजनत् । यः पुत्रं छाहडं गुण्यं रन्जितार्जुनभूपतिम् ॥ २ ॥
व्यारवालवरवंशसरोजहंसः काव्यामृतौघरसपानसुतृप्तगात्रः। सल्लक्षणस्य तनयो नयविश्वचक्षु. राशाधरो विजयंतां कलिकालिदासः ॥ ३ ॥ इत्युदयसेनमुनिना कविसुहृदा योऽभिनन्दितः प्रीत्या प्रज्ञापुजोऽसीति च योऽभिमतो मदनकीर्तियति
पतिना ॥४॥ (युग्मम् ) म्लेच्छेशन सपादलक्षविषये व्याप्ते सुवृत्तक्षतित्रासाद्विन्ध्यनरेन्द्रदो परिमलस्फूर्जस्त्रिवर्गोऽजसि ! प्राप्तो मालवमण्डले बहुपरीवारः पुरीमावसन्
यो धारामपठन्जिनप्रमितिवाक्शास्त्रे महावीरतः ॥५॥ म्लेच्छेशेन साहिवुदीनतुरुष्कराजेन । सुवृत्तक्षतिः सदाचारनाशः । दो:परिमलः परिमलो लक्षणावृत्त्या बलं बाहुबलातिशय इत्यर्थः । ओजः उत्साहोऽन्तःसारो वा । जिनप्रमितिवाक्शास्त्रे जैनेंद्रप्रमाणशास्त्रं जैनेंद्रव्याकरणं च । महावीरतः वादिराजपण्डितश्रीमद्धरसेनशिष्यात्पण्डितमहावीरात् ॥५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org