________________
VAAAAAA
२४४
सागारधर्मामृतेआशाधरत्वं मयि विद्धि सिद्धं निसर्गसौन्दर्यमजयमार्य। सरस्वतीपुत्रतया यदेतदर्थे परं वाच्यमयः प्रपञ्चः ॥ ६॥ अजयं मैत्री सरस्वतीपुत्रतया निसर्गसौंदर्य प्रकृत्या सहोदरत्वं ॥ ६ ॥
इत्युपश्लोकितो विद्वन्दिल्हणेन कवीशिना ।
श्रीविन्ध्यभूपतिमहासन्धिविग्रहिकेण यः ॥ ७॥ इति उपश्लोकितः श्लोकेनोपस्तुतः । श्रीविंध्यभूपतिः विजयवर्मा नाम मालवाधिपतिः ॥ ७ ॥
श्रीमदर्जुनभूपालराज्ये श्रावकसंकुले । जिनधर्मोदयार्थ यो नलकच्छपुरेऽवसत् ॥ ८ ॥ यो द्राग्व्याकरणाब्धिपारमनयच्छुश्रूषमाणान्न कान् सत्तर्के परमास्त्रमाप्य न यतः प्रत्यर्थिनः केक्षिपन् । चेरुः केस्खलितं न येन जिनवाग्दीपं पथि ग्राहिताः
पीत्वा काव्यसुधां यतश्च रसिकेष्वापुः प्रतिष्ठान के ॥९॥ कान् , पंडितदेवचंद्रार्दन प्रत्यर्थिनः प्रतिवादिनः । के, वादीद्रविशाल. कीर्त्यादयः अक्षिपन् जयंति स्म । चेरुः प्रवृत्ताः। के, भट्टारकदेवविनयभद्रादयः । अस्खलितं निरतिचारं । जिनवाक् अर्हत्प्रवचनं । पथि मोक्षमार्गे ग्राहिताः स्वीकारिताः । रसिकेषु सहृदयविदग्धेषु मध्ये । आपुः प्राप्ताः । के, बालसरस्वतीमहाकविमदनादयः ॥ ९ ॥
स्याद्वादविद्याविशदपसादः प्रमेयरत्नाकरनामधेयः । तर्कप्रबन्धो निरवद्यविद्यापीयूषपूरो वहति स्म यस्मात् ॥१०॥ सिध्यङ्क भरतेश्वराभ्युदयसत्काव्यं निबन्धोज्ज्वलं यस्त्रविद्यकवीन्द्रमोहनमयं स्वश्रेयसेऽरीरचत् । योऽर्हद्वाक्यरसं निबन्धरुचिरं शास्त्रं च धर्मामृतं निर्माय न्यदधान्मुमुक्षुविदुषामानन्दसान्द्रे हृदि ॥११॥ सिध्द्यङ्क सिद्धिः सिद्धशब्दोऽङ्कश्चिन्हं सर्गप्रांतवृत्तेषु यस्य तत्। निबंधोज्ज्वलं स्वयंकृतनिबंधनेन स्फुटप्रतिभासं । अरीरच रचयति स्म । अर्हद्वाक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org