________________
२४२
सागारधर्मामृत
शाधरो मुमुक्षुः सन् तदेव लिङ्गमाचेलक्यादिचतुर्विकल्पं कलयन् सत्यां समीचीनायां संवरसहभाविपापकर्मनिर्जरासमर्थायां रत्नत्रय भावनायां सम्यग्दर्श नादिरत्नत्रयाभ्यासे परिणत उपयुक्तः सन् प्राणांस्त्यक्त्वा शिवी स्यात् शिवमनेंद्रादिपदप्राप्तिलक्षणोऽभ्युदयः । शिवमस्यास्तीति शिवो अर्श आदेरित्यनेन मत्वर्थीयो अः प्रत्ययः । शेषं पूर्ववन्द्याख्येयं ॥ ऐदंयुगीनापेक्षया जघन्याराधनापक्षे तदेवेत्थं व्याख्येयं श्रमणः प्राख्याख्यातार्थवेशेषणविशिष्टः पंचनमस्क्रियायां पंचनमस्कारे स्मृतिः चिंता उच्चारणं यत्र तत्पंचनमस्क्रियास्मृतिः यथा भवत्येवं प्राणांस्त्यक्त्वा शिवी स्यात् । क्व, अष्टजन्मांतरे अष्टानां भवानां मध्ये उत्कृष्टमध्यमजघन्याराधनानुभवादन विभागः कर्तव्यः । तथा त्यागमः । कालाई अहिऊण च्छित्तूणं अट्ठकम्मसंखलयं । केवलणाणपहाणा केई सिज्यंति तंमि भवे ॥ १ ॥ आराहिऊण केई चउव्विहाराहणायि जं सारं । उवरियसेसपुंण सव्वट्टणिवासिणो होंति || २ || जेसिं होज्ज जहंणा चउविहाराहणा हु भवियाणं । सत्तठुभवे गंतुं ते चिय पावंति णिव्वाणं ॥ ३ ॥ अपि च- येsपि जघन्या तेजोलेश्यामाराधनामुपनयंति । तेऽपि च सौधर्मादिषु भवंति देवाः सुकल्पस्थाः ॥ १ ॥ अथवा — ध्यानाभ्यासप्रकर्षेण त्रुटयमोहस्य योगिनः । चरमांगस्य मुक्तिः स्यात्तदेवान्यस्य च क्रमात् ॥ १ ॥ तथाह्यंचर मांगस्य ध्यानमभ्यस्यतः सदा । निर्जरा संवरश्च स्यात्सकलाशुभकर्मणां ॥ २ ॥ आस्रवंति च पुण्यानि प्रचुराणि प्रतिक्षणं । यैर्महद्भिर्भवत्येषत्रिदशः कल्पवासिषु ॥ ३ ॥ तत्र सर्वेन्द्रियाह्लादि मनसः प्रीणनं परं ॥ सुखामृतं पिवन्नास्ते सुचिरं सुरसेवितः ॥ ४ ॥ ततोऽवतीय मत्येऽपि चक्रवयदि संपदः । चिरं भुक्त्वा स्वयं मुक्त्वा दीक्षां दैगंबरीं श्रितः ॥ ५ ॥ वज्रकायः स हि ध्यात्वा शुक्लध्यानं चतुर्विधं । विधूयाष्ट च कर्माणि श्रयते मोक्षसंपदम् ॥ ६ ॥ तदेतच्छ्मणधर्मधारिणः प्रति फलमुपदिष्टं, तदितरान् प्रति पुनरिदमुपदिश्यते । तदीयं पर इत्यस्य व्याख्यानन - परः श्रावकोऽन्यो वा सद्दृष्टिस्तदीयं श्रमणसंबंधी लिंगं कलयन् पंचनमस्क्रियास्मृतिः प्राणांस्त्यक्त्वा शिवी स्यादिति संबंधः । शेषं पूर्ववत् यथास्वं विकल्प्य व्याख्येयं ॥ यत स्वामी - खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या । पंचनमस्कारम नास्तनुं त्यजेत्सवयत्नेन ।। इति भद्रम् ॥ ११० ॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मटीकायां भव्यकुमुदचन्द्रिका सञ्ज्ञायामादित; सप्तदशः प्रक्रमाच्चाष्टमोऽध्यायः ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org