________________
अष्टमोध्यायः ।
२४१
टीका-भोः सुविहित शिरोरत्न । पिब उपर्युक्ष्व त्वं । कमानन्दसुधारसं प्रमोदपीयूषनिर्यासं । किं विशिष्टः सन् , निरुपाधिसमाधिस्थः निरुपाधिनिर्विशेषो ध्यातृध्यानध्येयविकल्पशून्यः समाधिोगो निरुपाधिसमाधिस्तत्र स्थितः । कथम्भूतो भूत्वा, नैराश्येत्यादि । नैराश्येन जीवितधनाद्याकांक्षानिग्रहेणारब्धमुपक्रान्तं नैस्संग्यं बहिरङ्गान्तरङ्गपरिग्रहनिष्क्रान्तत्वं तेन सिद्धो निष्पन्नः साम्यपरिग्रहः परमसामायिकस्वीकारो यस्य स तथोक्तः ॥ १०९ ॥
साम्प्रतमध्यायार्थमशेषमुपसंगृह्णन्नाराधकस्याराधनासहितमरणफलवि. शेषमुपदिशतिसंलिख्येति वपुः कषायवदलङ्कर्मीणनिर्यापकन्यस्तात्मा श्रमणस्तदेव कलयं ल्लिंग तदीयं परः । सदनत्रयभावनापरिणतः प्राणान् शिवाशाधरस्त्यक्त्वा पश्चनमस्क्रियास्मृति शिवी स्यादष्टजन्मान्तरे॥११०॥
टीका-शिवी स्यादशिवः शिवः सम्पद्यते परममुक्तो भवेदित्यर्थः । कोsसौ, शिवाशाधरः मोक्षायाभिलाषभृन्मुमुक्षुरित्यर्थः । किं कृत्वा, त्यक्त्वा । कान् , प्राणान् । किं विशिष्टः सन् , सदित्यादि। सत्या यथागुणस्थानं सम्भवत्या रत्नत्रयभावनया निश्चयरत्नत्रयाभ्यासेन परिणतो योगी चरमसमयवर्ती समुच्छिन्नक्रियाप्रतिपातिशुल्कध्यानारूढः । किं कुर्वन् , कलयन् धारयन् । किं तल्लिंङ्गं जिनरूपतां । किं, तदेव पूर्वगृहीतमौत्सर्गिकमेव । किमाख्योऽसौ, श्रमणः श्रवण इति व्यपदेशभाक् । कथंभूतो भूत्वा; अलंकरुणानिर्यापकन्यस्तात्मा कर्मणे प्रकृतत्वात्संसारार्णवनिस्तारणलक्षणाय अलं समर्थोऽलंकर्मीणः निर्यापको व्यवहारेण सुस्थिताचार्यो निश्चयेन तु शुद्धस्वात्मानुभूतिपरिणामोन्मुख आत्मैव तस्यैव दुःखहेतोवा आत्मनो निष्कासकत्वोपपत्तेः । यदाह-स्वस्मिन्सदभिलाषित्वादभीष्टज्ञापकत्वतः । स्वय हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥ १ ॥ अलंअरुणश्चासौ निर्यापकश्च अलंकर्मीणनिर्या'पकस्तत्र न्यस्तो निक्षिप्तः समर्पित आत्मा येन स तथोक्तः । किं कृत्वा, संलिख्य सम्यक् कृशीकृत्य । किं तद्वपुः,शरीरं । किंवत्,कषायवत् कषायान् शरीरं च बाह्याभ्यंतरतपोभिस्तनूकृत्य कथमित्येवमुक्तप्रकारेण । तदुत्कृष्टाराधनापक्षे व्याख्यानं ॥ मध्यमाराधनापक्षे संप्रति व्याख्यायते-श्रमणोऽनगारः शिवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org