________________
२४०
सागारधर्मामृते
टीका -- किं च उपदिश्यते सद्गुरुभिरसौ । दृक् दृष्टिः । किंविशिष्टा, ओजसी पारमार्थिकी । किं, श्रद्धा अभिनिवेशः । कथं भवति । कोऽसौ, स्वात्मैव न परात्मा । किंविशिष्टः, शुद्धो द्रव्यभावकर्मरहितः । पुनः किंविशिष्टः प्रमदवपुरानन्दरूपः । किंविशिष्टो भवत्युपादयो मुमुक्षूणामुपेयः । इत्येवंरूपा श्रद्धैव निश्वयसम्यक्त्वमाख्यायते । तथा संविदांजसी निश्चयज्ञानं सद्गुरुभिरुपदिश्यते । किमनुभवनमनुभूतिः । कस्य, तस्यैव शुद्धप्रमदवपुस्त्वेनोपादीयमानस्य स्वात्मन एव । कथं पृथक् भेदेन । कस्माद्विग्रहादेः कायवाङ्मनस्त्रयात् । कया, स्वानुभूत्त्या स्वसंवित्त्या । तथा सद्गुरुभिराञ्जसी चर्या निश्चयचारित्रं चोपदिश्यते । किमवस्थितिरवस्थानं । कस्य, स्वस्थात्मनः । क्व, तत्रैव तथाप्रतीयमानेऽनुभूयमाने स्वात्मन्येव । व सति, मनस्यन्तःकरणे । किंविशिष्टे, इते गते प्राप्ते । कं, लयं तन्मयीभावं 1 क तत्रैव कया, अत्यन्ततृप्त्या अतिमानवैतृष्ण्येन । उक्तं च- - दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥ १ ॥ तन्मयं तेन निश्चयरतत्रयेण निर्वृतं तदात्मकं स्वात्मानं, परमं शुद्धं परमप्रकर्षशुद्धिप्राप्तं । हे भेदरत्नत्रयपर व्यवहाररत्रत्रयप्रधान आराधकोत्तम विद्धि जानीहि संवेदय त्वं ॥ १०७ ॥
1
मुहुरिच्छामणुशोऽपि प्राणिहत्य श्रुतपरां श्रुतद्रव्ये । स्वात्मनि यदि निर्विघ्नं प्रतपसि तदास धुवं तपसि ॥ १०८ ॥
टीका - तथा यदि चेत् प्रतपसि दीप्यसे त्वं । क्क, स्वात्मनि । कथं, निर्विघ्नं निष्प्रत्यूहं । किं कृत्वा, प्रणिहत्य प्रकर्षेण नियतं हत्वा । कां, इच्छां कांक्षां | क, परद्रव्ये पुद्गलादौ । किंविशिष्टाणुशोऽपि स्वल्पामपि । किंविशिष्टः सन्, मुहुरसकृत् श्रुतपरः श्रुतज्ञानभावनापरिणतो भनन्नित्यर्थः । तदा ध्रुवं निश्चितं तपसि अव्याहतं स्फुरसि त्वं । क्व तपसि तपः सज्ञे साक्षान्मोक्षोपाये । आभ्यां निश्चयाराधनाचातुर्विध्यमुपदिष्टं प्रतिपत्तव्यं ॥ १०८ ॥
इदानीं व्यवहारेतराराधनासाध्यमानपरमानन्दलाभाविष्करणलक्षणेनाशीर्वाददानेन क्षपकं निर्यापकाचार्य: प्रोल्लासयन्नाहनैराश्यारब्धनैः संग्यसिद्धसाम्यपरिग्रहः । निरुपाधिसमाधिस्थः पिवानन्दसुधारसम् ॥ १०९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org