________________
अष्टमोध्यायः ।
किंविशिष्टेषु, भग्नेषु प्रपलायितेषु । व, इतस्ततः यत्र तत्र । कैः, तीव्रदुःखैः नितान्तासाबाधाभिः । किंविशिष्टैरतिक्रुद्धभूतारब्धैः अत्यन्तकुपिताधमव्यन्तरोपक्रान्तैः ॥ १०४ ॥
अचेन्नृतियग्देवोपसृष्टसंक्लिष्टमानसाः ।।
सुसत्त्वा बहवोऽन्येऽपि किल स्वार्थमसाधयन् ॥१०५॥ टीका-किल आगमे ह्येवं श्रूयते । सुसत्त्वा महासात्त्विका अन्येऽपि शिव. भूत्यादिभ्योऽपरेऽपि, बहवो भूयांसः, स्वार्थ पुरुषार्थ प्रकरणान्मोक्षलक्षणमसाधयन् निष्पादितवन्तः । कथम्भूता भूत्वा, अचेदित्यादि । अचेतोऽचेतनाः पृथिव्यादयः, नरो मनुष्याः तिर्यञ्चो तैर्यग्योना देवाः सुराः अचेतश्च नरश्च तिर्यञ्चश्व देवाश्च अचेन्नृतिर्यग्देवास्तैरुपसृष्टा कृतोपसर्गास्ते च ते असंक्लिष्टमानसाश्च रागद्वेषमोहानाविष्टचेतसः शुद्धस्वात्मध्यानपरिणताः अचेन्नृतिर्यग्देवोपटसंक्लिष्टमानसाः ॥ १०५ ॥
तत्त्वमप्यङ्ग सङ्गत्य निःसङ्गेन निजात्मना ।
त्यजाङ्गमन्यथा भूरिभवक्लेशैर्लपिष्यसे ॥ १०६ ॥ टीका-अंग अहो महात्मन् । यत एवं महानुभावैर्मुमुक्षुभिर्भगवच्छिवभूतिप्रभृतिभिः अत्यन्तविनिगरातोपनिपातेऽपि स्वार्थः साधितस्तत्तस्मात्त्वमपि भवानपि त्यज मुञ्च । किं तदङ्गं देहं । किं कृत्वा, सङ्गत्य संयुज्य । केन सह, निजात्मना आत्मीयेन तेन वा चिद्रूपेण । किंविशिष्टेन, निःसङ्गेन कर्मविविक्तेन । अन्यथा अन्येन संक्लेशावेशप्रकारेण अङ्गत्यागे ग्लपिष्यसे विक्लवीकरिष्यसे त्वं । कैः कर्तृभिर्भूरिभवक्लेशैः प्रचुरसंसारदुःखैः । उक्तंच" विराद्धे मरणे देव दुर्गतिर्दूरचोदिता। अनन्तश्चापि संसारः पुनरप्यागमिष्यति ॥ १०६ ॥ श्रद्धा स्वात्मैव शुद्धःप्रमदवपुरुपादेय इत्याजसीहक् तस्यैव स्वानुभूत्या पृथगनुभवनं विग्रहादेश्व संवित् । तत्रौत्यन्ततृप्त्या मनसि लयमितेऽवस्थितिः स्वस्य चर्या स्वात्मानं भेदरत्नत्रयपरपरंम तन्मयं विद्धि शुद्धम् ॥१०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org