________________
२३८
सागारधर्मामृतेशिष्टे, पातिते । कैर्वायुभिः । व, उपरि उपरिष्टात् । किं कृत्वा, संक्षोभ्य समन्तादितस्ततः क्षोभयित्वा संचाल्य ॥१०॥ मनुष्यकृतोपसर्गसहनोपाख्यानमिदम्न्यस्य भूषाधियाऽङ्गेषु सन्तप्ता लोहशृङ्खलाः। द्विदपक्ष्यैः कीलितपदाः सिद्धा ध्यानेन पाण्डवाः ॥१०२॥ टीका--सिद्धाः परममुक्तिं गताः । के, ते पाण्डवाः साक्षाद्युधिष्टिरभीमसेनार्जुनास्त्रयः सिद्धाः। नकुलसहदेवौ त्वसाक्षात् सर्वार्थसिध्द्यादिजन्मनः व्यवधानात् । केन, ध्यानेन शुद्धस्वात्मप्रसंख्यानेन । किंविशिष्टाः संतः, कीलितपदाः लोहकीलकैर्भूम्या सह यंत्रितपादाः । कैः, द्विट्पक्ष्यैः द्विषां कौरवाणां पक्षे भवैः तदागिनेयादिभिः । किं कृत्वा, न्यस्य निक्षिप्य । काः, लोहशृङलाः । किंविशिष्टाः, तप्ता: ज्वलज्ज्वालीकृताः । केषु, अङ्गेषु पाण्डवानां कण्ठादिप्रदेशेषु । कया, भुषाधिया भूषणकल्पनया । युष्मान् हेमाभरणानीमानि परिदापयाम इति कथयित्वेत्यर्थः ॥ १०२ ।। तिर्यकृतोपसर्गसहनोदाहरणमिदम्शिरीषसुकमाराङ्गः खाद्यमानोऽतिनिदेयम् ।
मृगाल्या सुकुमारोऽमून् विससर्ज न सत्पथम् ।।१०३।। टीका--विससर्ज त्यक्तवान् । कोऽसौ, सुकुमारः सुकुमारस्वामी । कान्, असून् प्राणान् न पुनः सत्पथं शुद्धस्वात्मध्यानरूपं सिध्धुपायं विससर्ज । किं क्रियमाणः, खाद्यमानः भक्ष्यमाणः । कया, सगाल्या जम्बुकस्त्रिया। कथमतिनिर्दयं प्रकामनिष्कृपं । किंविशिष्टः सन्, शिरीषसुकुमाराङ्गः शिरीपकुसुमसमानकोमलकायः ॥ १० ॥ सुरकृतोपसर्गसहने निदर्शनमिदम्
तीव्रदुःखैरतिद्धभूतारब्धैरितस्ततः।
भग्नेषु मुनिषु प्राणानौज्झद्विधुच्चरः स्वयुक् ॥ १०४ ॥ टीका-औज्झत्त्यजति स्म । कोऽसौ, विद्युच्चरः । कान्, प्राणान् । किविशिष्टः सन्, स्वयुक् आत्मानं समादधानः । केषु सत्सु, मुनिषु तपोधनेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org