________________
अष्टमोध्यायः ।
२३५
___टीका-हे आर्य आराधनातत्पर । एहि गच्छ त्वं । कां, निर्वृति मुक्ति। किं कृत्वा, मृत्वा प्राणान् विसृज्य । कथम्भूतो भूत्वा, तल्लयापास्तचिन्तः तत्र शुद्धस्वात्मनि लयः श्लेषस्तल्लयस्तन्मयीभावस्तेन अपास्ता निराकृता चिन्ता संकल्पश्चित्तं वा मनो यस्य स तथोक्तः । किं कुर्वन् , भावयन् । कं, शुद्धं रागद्वेषमोहरहितं स्वात्मानं निजचिद्गपं । कया,स्वसंविदा स्वसंवेदनेन । किं कृत्वा, गृहीत्वा निश्चित्य । केन, श्रुतेन 'एगो मे संसदो आदा' इत्यादिश्रुतज्ञानेन । मत्वेहीत्यत्र ओमाङोरित्यनेन परस्वरूपं । उक्तं च क्षेत्रपात्रे द्वे ज्ञातव्ये । "आराधनोपयुक्तः सन् सम्यक्कालं विधाय च । उत्कर्षात्रिभवान् गत्वा प्रयाति परिनिर्वृतिम् " ॥ ९२ ॥ उक्तमेवार्थ परमार्थसंन्यासोपंदेशद्वारेण समर्थयत
संन्यासो निश्चयेनोक्तः स हि निश्चयवादिभिः ।।
यः स्वस्वभावे विन्यासो निर्विकल्पस्य योगिनः।।९३॥ टीका-हि यस्मान्निश्चयवादिभिर्व्यवहारनयसापेक्षनिश्चयनयप्रयोगचतुरैः सूरिभिनिश्चयेन परमार्थेन स संन्यास उक्तः मुमुक्षूणामग्रे प्ररूपितः । यः किं, यो विन्यासः विधिपूर्वकमात्मनः स्थापनं। क, स्वस्वभावे शुद्धचिदानन्दमये स्वात्मनि । कस्य, योगिनः समाधिमतः । किंविशिष्टस्य, निर्विकल्पस्य अन्तर्जल्पसंपृक्तोत्प्रेक्षाजालनिष्क्रान्तस्य ॥ ९३ ॥
परीषहादिना विक्षिप्यमाणचित्तस्य क्षपकस्य निर्यापकाचार्यः किं कुर्यादित्याह
परीषहोऽथवा कश्चिदुपसर्गो यदा मनः ।
क्षपकस्य क्षिपेज्ज्ञानसारैः प्रत्याहरेत्तदा ॥ ९४ ॥ टीका--यदा यस्मिन्काले क्षिपेद्यत्र तत्र भ्रमयेत् । कोऽसौ, कश्चित् कोऽपि क्षुधादीनामन्यतमः परिषहोऽथवा कश्चिदचेतनकृतादीनामन्यतम उपसर्गो वा । किं तन्मनः । कस्य, आराधकस्य । तदा प्रत्याहरेत् व्यावर्तयेत् शुद्धस्वारमोन्मुखं तत्कुर्यादाचार्यः । कैः, ज्ञानसारैः श्रुतज्ञानरहम्योपदेशैः ॥९४॥ ज्ञानसाररित्येतत् प्रपंचयितुमुत्तरप्रबन्धमाहं -
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org