________________
२३४
सागारधर्मामृतेविषयैषिता स्पर्शादिविषयेष्वभिलाषः । तत्र द्वयोरपि ग्रन्थयोर्निर्मोहो निर्मूर्छः साधरर्थतः परमार्थेन निर्ग्रन्थो निष्परिग्रहो भवति । तथा शिवपुरे निर्वाणनगरे पान्थो नित्यं प्रस्थायी स्यात् निर्ग्रन्थस्यैव मोक्षमार्गेऽविच्छिन्नं प्रस्थातुं समर्थत्वात् ॥ ८९ ॥ कषायेन्द्रियकृतापायाननुस्मारयन्नाह--
कषायेन्द्रियतन्त्राणां तत्तादृग्दुःखभागिताम् ।
परामृशन्मास्म भवः शंसितव्रत तद्वशः ॥९॥ टीका--भोः शंसितानि महद्भिरपि स्तुतानि व्रतानि यस्य स शंसितव्रत मा स्म भवः मा भूस्त्वं । किं विशिष्टस्तद्वशः कषायेन्द्रियपरतन्त्रः । किं. कुर्वन्, परमृशन् चिन्तयन् । कां, तत्तादृग्दुःखभागितां सा षष्टाध्याये निर्दिष्टा तादृगनन्यसाधारणी दुःखभागिता क्लेशानुभूतिस्तां। केषां, कषायेन्द्रियेषु आयत्तानां तदभिभूतानामित्यर्थः ॥ ९० ॥ एवं व्यवहाराराधनानिष्टतां विधाप्य निश्चयाराधनामुपदिशति
श्रुतस्कन्धस्य वाक्यं वा पदं वाऽक्षरमेव वा ।
यत्किश्चिद्रोचते तत्रालम्ब्य चित्तलयं नय ॥ ९१ ॥ टीका-अहो व्यवहाराराधनापरिणत आराधकराज । यत्किंचिद्यत्किमपि रोचते तुभ्यं रुचिमुत्पादयति च । किं तद्वाक्यं वा बाह्यमाध्यात्मिकं वा, णमो अरहंताणमित्यादिकं पदं वा, अर्हमित्यादिकमक्षरमेव वा अ सि आ उ सा इत्यादीनामेकतम। कस्य सम्बन्धि, श्रतस्कन्धस्य श्रुतस्याङ्गप्रविष्टस्य आचाराङ्गादिद्वादशविकल्पस्य अङ्गबाह्यस्य च सामायिकादिभेदस्य प्रकीर्णका. ख्यस्य स्कन्धः सङ्घातस्तस्य मध्ये यत्किंचिद्वाक्यादिकमिदानी क्षीणशक्तेस्तवानुरागं जनयति । तत्र इष्टे वाक्यादीनामन्यतमे आलम्ब्य आसज्य चिरत्र भवतः प्रमाणं श्रुतस्कन्धवाक्यादीनां त्रयाणामपि भक्त्या भाव्यमा. नानां परमार्थाराधनासाधनसामर्थ्यनिर्णयात् । अक्षरमेवेत्यत्र एव शब्दश्च स्वयोग्यव्यवस्थापकः ॥ ९१ ॥
शुद्धं श्रुतेन स्वात्मानं गृहीत्वार्य स्वसंविदा । भावयंस्तल्लयापास्तचिन्तो मृत्वैहि निर्वृतिम् ॥ ९२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org