________________
अष्टमोध्यायः ।
२३३
पश्चरन् पञ्चाग्निसाधनं कुर्वन् । क्व, दिवा दिने । किं कृत्वा, मुषित्वा मुषितं. धनां कृत्वा । कां, कौशाम्बी कौशाम्बीसज्ञनगरी तन्नगरीवास्तव्यलोकं । क्व, रात्रौ ॥ ८६ ॥ ब्रह्मचर्यदायविधापनार्थमाह
पूर्वेऽपि बहवो यत्र स्खलित्वा नोद्गताः पुनः।
तत्परं ब्रह्म चरितुं ब्रह्मचर्य परं चरेत् ।। ८७ ॥ टीका-वहवः प्रभूताः पूर्वे रुद्रादयः किं पुनरद्यतना मुनय इत्यपिशब्दार्थः । यत्र यस्मिन् ब्रह्मचर्याख्ये व्रते, स्खलित्वा अतिचारं प्राप्य, न पुनरुद्दता न तत्रात्मानमुपस्थापितवन्तोऽनाचारं चरितवन्त इत्यर्थः । तद्ब्रह्मचर्य चतुर्थव्रतं परमुत्कृष्टं मनागप्यतीचाररहितं कृत्वा चर धारय त्वं । किं कर्तुं, चरितुमनुभवितुं । किं तत्परमुत्कृष्टं निर्विकल्पं प्रत्यग्ज्योतिराख्यं, ब्रह्मा ज्ञानं, शुद्धस्वात्मानं स्वात्मना संवेदयितुमित्यर्थः ॥ ८७ ॥ नैग्रंथ्यव्रतं द्रढयितुमाह
मिथ्येष्टस्य स्मरन् श्मश्रुनवनीतस्य दुमृतेः ।
मोपेक्षिष्ठाः क्वचिद् ग्रन्थे मनो मृर्छन्मनागपि ।। ८८ ॥ टीका--भोः सुविहितसाधो मा उपेक्षिष्ठाः माऽवधीरय त्वं । किं तन्मनः। किं कुर्वत्, मूर्च्छत् मुह्यत् ममेदमिति संकल्पं गच्छत् । क्व, क्वचित् क्वापि अन्थे परिग्रहे । कथं,मनागपि सर्वस्मिन् संगे चित्तं व्यासजदभ्याज त्वमित्यर्थः। किं कुर्वन् , स्मरन् । कस्य, इमश्रनवनीतस्य कस्यचिच्छेष्ठिपुत्रस्य । किंविशिष्टस्य, मिथ्येष्टस्य वितथमनोरथस्य । पुनः किंविशिष्टस्य, दुर्मतेः रौद्रध्यानमतस्य ॥ ८॥ निश्चयनयेन नैग्रन्थ्यप्रतिपत्त्यर्थमाह
बाह्यो ग्रन्थोऽङ्गमक्षाणामान्तरो विषयैषिता।
निर्मोहस्तत्र निग्रन्थः पान्थः शिवपुरेऽर्थतः ॥ ८९ ॥ टीका--भवति। कोऽसौ, बाह्यो बहिरङ्गो, ग्रन्थः परिग्रहः । किमङ्गं शरीरं । तथा आंतरोऽन्तरङ्गः सङ्गो भवति ।: किं, अक्षाणां स्पर्शनादीनां
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org