________________
२३२
सागारधर्मामृते
अजैर्यष्टव्यमित्यत्र धान्यैत्रैवार्षिकैरिति । व्याख्यां छागैरिति परावर्त्यागान्नरकं वसुः ॥ ८४ ॥
टीका -- अगात् गतः । कोऽसौ वसुर्नाम राजा । किं तन्नरकं । किं कृत्वा, परावर्त्य अन्यथा कृत्वा । कां, धान्यैस्त्रैवार्षिकैरिति व्याख्यां । कथं, परावर्त्य च्छागैरिति । क्व, अजैर्यष्टव्यमित्यत्र परमागमे वाक्ये । अयमर्थः । न जायंत इत्यजा वर्षत्रवृत्तयो व्रीहयस्तैर्यष्टव्यं शान्तिकपौष्टिकार्था क्रिया कार्येति क्षीरकदंबाचार्यैरिदं व्याख्यानं परावर्त्य अजैरजात्मजैर्यष्टव्यं हव्यकव्यार्थो विधिर्विधातव्य इत्यन्यथा कृत्वा पर्वतनारदविसंवादे वसुराजः श्वभ्रमगमदित्यर्थः : ॥ अजैहतव्यमिति क्वचित्पाठः ॥ ८४ ॥
स्तेयानुभावं द्वाभ्यामाह-
आस्तां स्तेयमभिध्याऽपि विध्याप्याऽग्निरिव त्वया । हरन् परस्वं तदसून् जिहीर्षन् स्वं हिनस्ति हि ।। ८१ ॥
1
टीका -- भोः समाधिमरणार्थिन् । आस्तां तिष्ठतु । किं तत्कथनेनेत्यर्थः । किं तत्, स्तेयं परधनापहरणं । विध्याप्या रामयितव्या त्वया । काऽसावभिध्याऽपि परधनेच्छाऽपि । क इवाग्निरिव वन्हिर्यथा तापहेतुत्वात् । हि यस्मात् हिनस्ति हन्ति । कोऽसौ पुरुषः । कं, स्वमात्मानं । किं चिकीर्षन्, जिहीर्षन् हर्तुमिच्छन् । कान्, तदसून परप्राणान् । किं कुर्वन्, हरन् अदत्तं गृहन् । किं तत्, परस्वं परद्रव्यं । अयमन्त्राभिप्रायः- परधनं मुष्णतः परप्राणोपघातेच्छा अवश्यं भाविनी, परजिघांसाच आत्मनो हिंसा परमार्थतस्तस्या एव हिंसात्वात् । भावहिंसायामेव हि सत्यां द्रव्यहिंसा दुरन्तसंसा दुःखलक्षणं स्वफलं प्रयच्छतीति ॥ ८५ ॥
रात्री मुषित्वा कौशाम्बीं दिवा पञ्चतपश्चरन् । शिक्यस्थस्तापसोऽघोऽगात् तलारकृतदुर्मृतिः ॥ ८६ ॥ टीका—अधोऽगान्नरकं गतः । कोऽसौ, तापसो भौतिकः । किंविशिष्टः सन्, तलारकृतदुर्मृतिः तलवरेण प्रवर्तितप्रकृष्टरौद्रध्यानाविष्टमरणः । किं कुर्वन्, शिक्यस्थः परभूमिं न स्पृशामीति लम्बमाने शिक्ये स्थितः । पञ्चत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org