________________
ARNAAKAALAnan...RAN
२३६
सागारधर्मामृतेदुःखाग्निकीलैराभीलैनरकादिगतिष्वहो ।
तप्तस्त्वमङ्गसंयोगात् ज्ञानामृतसरोऽविशन् ॥ ९५ ॥ टीका-अहो भावकप्रवेक तप्तः सन्तप्तस्त्वं । कैदुःखानिकीलैः शारीरमानसाशान्तदहनज्वालाभिः । किंविशिष्टैः, आभीलैः कष्टैः प्रतिकर्तुमशक्यैरित्यर्थ : । कासु, नरकादिगतिषु नारकतिर्यङ्मनुष्यदेवभवग्रहणेषु । कस्मादंगसंयोगात् शरीरसंश्लेषात्, शरीरमात्मबुध्द्याध्यवस्यन्नित्यर्थः । किं कुर्वन्, अविशन् अप्रविशन् अनवगाहमानः । किं तत्, ज्ञानामृतसरः अन्यच्छरीरमन्योऽहमित्यादिभेदोपलम्भपीयूषतडागम् ॥ १५ ॥
इदानीमुपलब्धात्मदेहभेदाय साधुभिः ।
सदाऽनुगृह्यमाणाय दुःखं ते प्रभवेत्कथम् ।। ९६ ॥ टीका-इदानी सम्प्रति । कथं प्रभवेत् । किं तत्, दुःखं । कस्मै, ते तुभ्यं । केनाऽपि प्रकारेण त्वामभिभवितुं परिषहादिदुःखं न शक्नुयादित्यर्थः। किंविशिष्टाय ते, उपलब्धात्मदेहभेदाय निश्चितस्वात्मशरीरव्यतिरेकाय । पुनः किंविशिष्टाय, अनुगृह्यमाणाय उपक्रियमाणाम । कैः, साधुभिः संयतैः। कथं, सदा नित्यम् ॥ ९६ ॥
दुःखं सकल्पयन्ते ते समारोप्य वपुर्जडाः ।
स्वतो वपुः पृथक्कृत्य भेदज्ञाः सुखमासते ॥९७ ॥ टीका-संकल्पयन्ति ममेदमिति व्यवस्यन्ति। के, ते जडाः बहिरात्मानः। किं तत्, दुःखं अहं दुःखवानस्मीति प्रतिपद्यन्त इत्यर्थः । किं कृत्वा, समारोप्य सन्मुखं योजयित्वा । किं तद्वपुः शरीरं । क्क, स्वे आत्मनि स्वदेहं स्वात्मतयां निश्चित्येत्यर्थः । भेदज्ञा आत्मशरीरविवेकविदः । पुनरासते तिष्टंति । कथं, सुखं स्वात्मदर्शनोत्थमानन्दमनुभवन्तीत्यर्थः । किं कृत्वा, पृथक्कृत्य भेदेनाध्यवसाय्य । किं तद्वपुः । कस्मात्स्वतः शरीरमात्मनो भिन्नं निश्चित्य । तद्भेदभावना यथा-न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो न्यथा । नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले ॥ जीवोऽन्यः पुद्गलश्वान्य इत्यादि ॥ ९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org