________________
अष्टमोध्यायः । .
२२७
अक्षाणि स्पर्शनादीनि । तथा पश्य अवलोकय त्वं । कमात्मानं । केन, आत्मना स्वयं । क, आत्मनि स्वस्मिन् । कस्यै, मुक्तये मोक्षाय न संसारसुखाय ॥ ६९॥ मिथ्यात्वस्यापायहेतुत्वं श्लोकद्वयेन स्पष्टयति
अधोमध्यावलोकेषु नाभूनास्ति न भावि वा।
तदुःखं यन्न दीयेत मिथ्यात्वेन महारिणा ।। ७० ॥ टीका--तत् दुःखमधोलोके मेरोरधः सप्तसु भूमिषु, मध्यलोके जम्बूद्वी. पादिस्वयम्भूरमणसमुद्रान्ते तिर्यग्लोके, ऊर्ध्वलोके मेरुचूलिकान्ततःप्रभृति तनुवातवलयपर्यन्ते । नाभूत् न भूतं । नास्ति न भवति । न भावि वा न वा भविष्यति । यन्न दीयेत न सम्पाद्येत जीवस्य । केन, मिथ्यात्वेन । किंविशिष्टेन, महारिणा परमशत्रुणा, तस्मिन् सत्येव बाह्याभ्यन्तरशत्रूणामपकारकत्वोपपत्तेः ॥ ७० ॥
सङ्घश्रीर्भावयन्भूयो मिथ्यात्वं वन्दकाहितम् ।
धनदत्तसभायां द्राक्स्फुटिताक्षोऽभ्रमद्भवम् ।। ७१ ॥ टीका---अभ्रमत् पर्यटति स्म । कोऽसौ, सङ्घश्रीधनदत्तनृपतिमन्त्री । कं, भवं संसारं । दीर्घसंसारोऽभूदित्यर्थः । कथम्भूतो भूत्वा, द्राक् स्फुटिताक्षः झटिति स्फुटितचक्षुः । कस्यां, धनदत्तसभायां धनदत्तस्य स्वस्वामिनः परिपदि । किं कुर्वन्, भावयन् अध्यात्ममभ्यस्यन् । किं तन्मिथ्यात्वं । किंवि. शिष्टं, भूयो वन्दकेन पुनरारोपितं । इयमन्याश्च सर्वाः कथाः कथाकोशादिशास्त्रेषु द्रष्टव्याः ग्रंथगौरवभयादिह नोक्ताः ॥ ७१ ॥ सम्यक्त्वस्योपकारकत्वं श्लोकद्वयेनाह--
अधोमध्यो लोकेषु नाभून्नास्ति न भावि वा ।
तत्सुखं यन्न दीयेत सम्यक्त्वेन सुबन्धुना ॥ २ ॥ टीका--अस्यापि पूर्ववढ्याख्या सुबन्धुत्वं पुनः सम्यक्त्वस्य सर्वत्र सर्वदा सर्वेषामुपकारकत्वात्समस्तविनिपातप्रतिबन्धकत्वाच्च निश्चयम् ॥ ७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org