________________
२२८
सागारधर्मामृते
प्रहासितकुदृग्बद्धश्वभ्रायुःस्थितिरेकया।
दृग्विशुध्धाऽपि भविता श्रेणिकः किल तीर्थकृत् ॥७३॥ टीका-किल एवं ह्यागमे श्रूयते श्रेणिको नाम मगधमहामंडलेश्वरों भविता भविष्यति । किंविशिष्टः, तीर्थकृत् धर्मतीर्थकरः । कया, दृग्विशुध्द्या। किंविशिष्टया, एकया असहायया विनयसम्पन्नतादितीर्थकरत्वकारणान्तररहि. तया । अपिर्विस्मये । किंविशिष्टः सन् , प्रेत्यादि श्वभ्रे सप्तमनरकभूमावायुषो भवधारणकारणकर्मणः स्थितिः काल्मवधारणेन बन्धः श्वभ्रायुःस्थितिः कुदृशा तीवमिथ्यात्वपरिणामेन बद्धा आत्मसात्कृता श्वभ्रायुःस्थितिः कुदृग्बद्धश्वभ्रायुःस्थितिः प्रहासिता त्रयस्त्रिंशत्सागरोपमपरिमाणादपकृष्य रत्नप्रभायां चतुरशीतिवर्षसहस्रपरिमाणा कृता कुदृम्बद्धा श्वभ्रायुःस्थितिर्यस्य । एकयाऽपि दृग्विशुध्द्या स तथोक्तः ॥ ७३ ॥ अर्हदक्तेर्माहात्म्यं द्वाभ्यामाह
एकैवास्तु जिने भक्तिः किमन्यैः स्वेष्टसाधनैः।
या दोन्धि कामानुच्छिद्य सद्योऽपायानशेषतः ॥ ७४|| टीका-भोः सुविहित साधो । अस्तु भवतु । काऽसौ, भक्तिर्भावविशुद्ध आन्तरोऽनुरागः । क, जिने भगवदर्हद्देवे। किंविशिष्टा, एकैव असहायैव । किं कार्य । कैः, स्वेष्टसाधनैः स्वाभिमतार्थसिध्युपायैः। किंविशिष्टैरन्यैर्जिनभक्तिव्यतिरिक्तैः । सर्वपुरुषार्थसाधनानां तया विना तदाभासत्वनिश्चयात् । या किं, या दोग्धि प्रपूरयति । कान्, कामान् मनोरथान् । किं कृत्वा, उच्छिद्य निरस्य । कानपायान्, अभ्युदयनिःश्रेयसभ्रंशिनोऽपायान् । कथमशेषतः सर्वतः सर्वान्वा । कथं, सद्यः स्वाविर्भावनानन्तरमेव ॥ ७४ ॥
वासुपूज्याय नम इत्युक्त्वा तत्संसदं गतः ।
द्विदेवारब्धविघ्नोऽभूत् पद्मः शक्रार्चितो गणी ॥७५॥ टीका-अभूत्सम्पन्नः । कोऽसौ, पद्मः पद्मरथो नाम मिथिलाधिपतिः । किंविशिष्टो, गणी गणधरदेवः । किंविशिष्टः सन् , शक्रार्चितः इन्द्रकृतप्रातिहार्यः । पुनः किंविशिष्टः सन्, द्विदेवारब्धविघ्नः द्वाभ्यां देवाभ्यां धन्वतारविश्वानुलोमचराभ्यामारब्धाः कर्तुमुपक्रान्ता विघ्नाः काकळकारककृष्णसर्पमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org