________________
२२६
सागारधर्मामृते
ब्रह्मचारिणो मुखेन ग्राहितो लापितो यथाकथञ्चित्कृतानपराधान् मम यूयं क्षमध्वमहं च भवत्कृतास्तान् क्षम्ये इति क्षमणं यः स तथोक्तः । एतच्च एवं निवेद्य संधायेति प्रागुक्तमेव विशेष्य पुनरुक्तम् ॥ ६६ ॥
एवमाराधनापताकाग्रहणोद्यतस्य क्षपकस्य निर्यापकाः किं कुर्युरित्याहततो निर्यापकः कर्णे जपं प्रायोपवेशिनः ।
दद्युः संसारभयदं प्रीणयन्तो वचोऽमृतैः ॥ ६७ ॥
टीका - ततो यथोक्तकरणीयकारणानन्तरं । दद्युः सम्पादयेयुः । के, निर्यापकाः समाधिविधायिनो मुनयः । कं, जपं । किंविशिष्टं, संसारभयदं संसारभयं संवेगमुपलक्षणान्निर्वेदं च ददानं । क्क, कर्णे श्रुतिमार्गे । कस्य, प्रायोपवेशिनः संन्यासिनः । किं कुर्वन्तः, प्रीणयन्तः सन्तर्पयन्तः । कैर्वचोऽमृतैः पीयूषसमैर्वाक्यैः ॥ ६७ ॥
अथातो निर्यापकाचार्यकार्यां क्षपकस्य महतीमनुशिष्टिमुत्तरत्र प्रबन्धेनोपदिशति
मिथ्यात्वं वम सम्यक्त्वं भजोर्जय जिनादिषु । भक्ति भावनमस्कारे रमस्व ज्ञानमाविश ॥ ६८ ॥
टीका- भो आराधकराज वम निःशेषय त्वं । किं तन्मिथ्यात्वं विपरीसाभिनिवेशं । तथा भज भावय स्वं । किं तत्सम्यक्त्वं तत्त्वार्थश्रद्धानं । तथा ऊर्जय बलवतीं जीवन्तीं वा कुरु त्वं । कां, भक्ति । केषु, जिनादिषु अर्हदादिषु परमेष्ठिषु तच्चैत्येषु व्यवहारनिश्चयरत्नत्रये च । तथा रमस्व रतिं कुरु त्वं भावनमस्कारे अर्हदादिगुणानां सानुरागानुध्याने । तथा आविश उपयुंक्ष्व त्वं । किं तत् ज्ञानं बाह्यमाध्यात्मिकं च तत्त्वबोधम् ॥ ६५ ॥
>
महाव्रतानि रक्षोच्चैः कषायान् जय यन्त्रय ।
अक्षाणि पश्य चात्मानमात्मनाऽऽत्मनि मुक्तये ॥ ६९ ॥ टीका—तथा रक्ष पालय त्वं । कानि, महाव्रतानि । तथा जय निगृहाण त्वं । कानू, कषायान् क्रोधादीन् । कथमुचैरत्यर्थ, तज्जये सुतरां यत्नं कुरु'वेत्यर्थः पैः । तथा यन्त्रय निजनिजविषयेषु प्रवर्तमानानि त्वं निरुन्धि । कानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org